पूर्वम्: ४।३।१०२
अनन्तरम्: ४।३।१०४
 
सूत्रम्
काश्यपकौशिकाभ्यामृषिभ्यां णिनिः॥ ४।३।१०३
काशिका-वृत्तिः
काश्यपकौशिकाभ्याम् ऋषिभ्यां णिनिः ४।३।१०३

काश्यपकौशिकाभ्याम् ऋषिभ्यां णिनिः प्रत्ययो भवति तेन प्रोक्तम् इत्येतस्मिन् विषये। छस्य अपवादः। णकार उत्तरत्र वृद्ध्यर्थः। कल्पस्ताभ्यां प्रोक्तः इति स्मर्यते। तस्य अपि तद्विषयता भवत्येव। शौनकादिभ्यश् छन्दसि ४।३।१०६ इत्यत्र अनुवृत्तेः छन्दो ऽधिकारविहितानां च तत्र तद्विषयता इष्यते। काश्यपेन प्रोक्तं कल्पमधीयते काश्यपिनः। कौशिकिनः। ऋषिभ्याम् इति किम्? इदानींतनेन गोत्रकाश्यपेन प्रोक्तं काश्यपीयम्।
न्यासः
काश्यपकौशिकाभ्यामृषिभ्यां णिनिः। , ४।३।१०३

"णकार उत्तरत्र वृद्ध्यर्थः" इति। उत्तरेषु योगेषु वृद्धिर्यथा स्यात्। इह हि णकारस्य प्रयोजनं नास्ति, तस्य हि वृद्धिरेव प्रयोजनम्। काश्यपकौशिकशब्दौ वृद्धिमन्तौ। "तस्यापि च" इत्यादि। ननु च च्छन्दोब्राआहृणादीनां तद्विषयता युक्ता, तत्कथं कल्पस्यापि सा भवति? इत्याह-- "शौनकादिभ्यः" इत्यादि। स्यादेतत्-- यद्यपीदं न सिद्ध्यत्येव। न हि शौनकादिभ्यश्छन्दसि" ४।३।१०६ इत्यत्रानुवत्र्तते, तथापि छन्दोब्राआहृणादीनां तद्विषयतोच्यमाना कल्पस्य न सिध्यत्येव। नहि शौनकादिसूत्रा ४।३।१०६ नुवृत्तौ सत्यामस्य योगसय् कल्पश्छन्दोभावं ब्राआहृणभावमापद्यत इत्याह-- "छन्दोऽधिकारविहितानञ्च" इत्यादि। कथं पुनरिष्यमाणाऽपि छन्दोऽधिकारविहितानां स्वर्यते। तेन "शौनकादिभ्यश्छन्दसि" ४।३।१०६ इतीदम्प्रकृतयो विहिताः प्रोक्तप्रत्ययाः, तेषां सर्वेषामेव कल्पादावपि तद्विषयता भवति। अथ गुणकल्पनया कल्पादीनामपि छन्दस्त्वं विवक्ष्यते। ननुच "छन्दोब्राआहृणानि च" ४।२।६५ इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वात् तेनैव प्रागेव कल्पादेस्तद्विषयता प्रतिपादिता, तत्किमर्थं पुनरनेन प्रकारेण प्रतिपाद्यते। तत्र वा कल्पादेस्तद्विषयताप्रतिपादनार्थश्चकारः कत्र्तव्यः, अयं वा प्रकार आश्रयितव्य इति विकल्पप्रदर्शनार्थम्। "इदानीन्तनेन" इत्यादि। इदानीन्तनो यः काश्यपः स काश्यपगोत्रप्रभवत्वात् काश्यप इत्युच्यते, तथेदानीन्तनो यः कौशिकः स कौशिकगोत्रप्रभवत्वात् कौशिक इत्युच्यते; तत्र यदि ऋषिग्रहणं ऋषिशब्दादेव, तथा हि प्रवराध्याये ये पठ()न्ते त ऋषय इति, इमावपि तत्र पठ()एते एव? नैष दोषः; विशेषणोपादानसामथ्र्यादयमृषिशब्दः क्रियाशब्दो विज्ञायते-- ऋषिर्दर्शनादिति। तेन यावनन्यपुरुषसाधारणेनौपदेशिकेन दर्शनेन तद्व्नतौ काश्यपकौशिकशब्दौ तत इदं प्रत्ययविधानम्; न चेदानीन्तनौ काश्यपकौशिकशब्दावेवंविधौ, ताभ्यां छ एव भवति॥
बाल-मनोरमा
काश्यपरकौशिकाभ्यामृषिभ्यां णिनिः १४६२, ४।३।१०३

काश्यपिन इति। काश्यपशब्दाण्णिनिः। णकार इत्। नकारादिकार उच्चारणार्थः। काश्यपिन्शब्दात् "प्रोक्ताल्लु"गित्यध्येतृप्रत्ययस्याऽणो लुगिति भावः। एवं कोशिकिनः। ऋषिभ्यां किम्?। इदानींतनेन काश्यपेन प्रोक्तं काश्यपीयम्।

तत्त्व-बोधिनी
काश्यपकौशिकाभ्यामृषिभ्यां णिनिः ११४४, ४।३।१०३

काश्यप। छस्यापवादः। णकार उत्तरत्र वृद्द्यर्थः। ननु "वृद्धिनिमित्तस्ये"ति पुंवद्भावनिषेधोऽत्र फलमस्तीति चेत्। अत्राहुः---णिन्यन्तस्याध्येतृवेदितृविषयत्वेन स्त्रियामप्रवृत्तेः। प्रवृत्तावपि "जातेस्चे"ति सिद्धत्वात्, चरणत्वेन जातित्वादिति। ऋषिभ्यामिति किम्()। इदानींतमेन गोत्रकाश्यपेन गोत्रकाश्यपेन प्रोक्तं काश्यपीयम्।