पूर्वम्: ४।३।१०५
अनन्तरम्: ४।३।१०७
 
सूत्रम्
शौनकादिभ्यश्छन्दसि॥ ४।३।१०६
काशिका-वृत्तिः
शौनकाऽदिभ्यश् छन्दसि ४।३।१०६

शौनक इत्येवम् आदिभ्यः णिनिः प्रत्ययो भवति तेन प्रोक्तम् इत्येतस्मिन् विषये छन्दस्यभिधेये। छाणोरपवादः। शौनकेन प्रोक्तम् अधीयते शौनकिनः। वाजसनेयिनः। छन्दसि इति किम्? शौनकीया शिक्षा। कठशाठ इत्यत्र पठ्यते तत्संहतार्थं, केवलाद् धि लुकं वक्ष्यति। कटशाठाभ्यां प्रोक्तम् अधीयते काठशाठिनः। शौनक। वाजसनेय। साङ्गरव। शाऽर्ङ्गरव। साम्पेय। शाखेय। खाण्डायन। स्कन्ध। स्कन्द। देवदत्तशठ। रज्जुकण्ठ। रज्जुभार। कठशाठ। कशाय। तलवकार। पुरुषांसक। अश्वपेय। शौनकादिः।
न्यासः
शौनकादिभ्यश्छन्दसि। , ४।३।१०६

"छाणोरपवादः" इति। ये वृद्धास्तेभ्यश्छस्यापवादः, शेषेभ्यस्त्वणः। "शौनकिनः। वाजसनेयिनः" इति। शौनकेन प्रोक्तं वाजसनेयेन प्रोक्तमिति णिनिः। तदन्तात् ४।२।५८ इत्यण्, तस्य "प्रोक्ताल्लुक्" ४।२।६३, पूर्ववत् तद्विषयता। "केवलाद्धि" इत्यादि। तत् संहतार्थमित्यत्रायं हेतुः। यस्मात् केवलात् कठाल्लकं वक्ष्यति, तस्मात् कठशाठ इति यदत्र पठ()ते तत्संहतार्थम्॥
बाल-मनोरमा
शौनकादिभ्यश्छन्दसि १४६५, ४।३।१०६

"छन्दोब्राआहृणानि च तद्विषयाणी"त्यध्येतृप्रत्ययान्तत्वनियमस्तु कल्पेषु न सर्वत्र प्रवर्तत इति "छन्दोब्राआहृणानी"ति सूत्रेभाष्ये स्पष्टम्। याज्ञवल्कानीति। याज्ञवल्क्येन प्रोक्तानीत्यर्थः। आश्मरथ इति। आश्मरथ्येन प्रोक्त इत्यर्थः। यलोप इति। यज्ञवल्का()आरथशब्दौ कण्वादी। ताभ्यां यञन्ताभ्यामणि "आपत्यस्य चे"ति यलोप इत्यर्थः। याज्ञवल्क्याऽ‌ऽश्मरथ्यावाधुनिकावित्यभिमानः। भाष्ये तु शाठ()आयनादितुल्यकालत्वाद्याज्ञवल्क्यादिभ्यो णिनिप्रतिषेध इति तद्विषयता च नेति वचनद्वयमारब्धमित्यास्तां तावत्।