पूर्वम्: ४।३।१०७
अनन्तरम्: ४।३।१०९
 
सूत्रम्
कलापिनोऽण्॥ ४।३।१०८
काशिका-वृत्तिः
कलापिनो ऽण् ४।३।१०८

कलापिशब्दादण् प्रत्ययो भवति तेन प्रोक्तम् इत्येतस्मिन् विषये। वैशम्पायनान्तेवासित्वाण् णिनेरपवादः। कलापिना प्रोक्तम् अधीयते कालापाः। इनण्यनपत्ये ६।४।१६४ इति प्रकृतिभावे प्राप्ते, न अन्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकुथुमितैतलिजाजलिजाङ्गलि। लाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणाम् उपसङ्ख्यानम्। इति टिलोपः। अथाण्ग्रहणं किम्, यथाप्राप्तम् इत्येव सिद्धम्? अधिकविधानार्थं, तेन माथुरी वृत्तिः, सौलभानि ब्राह्मणानि इत्येवम् आदि सिद्धम्।
न्यासः
कलापिनोऽण्। , ४।३।१०८

"कालापाः"इति। पूर्ववत् प्रोक्तप्रत्ययान्तादध्येतर्युत्पन्नस्याणो लुक्, तद्विषयता च। "अथ" इत्यादि। ननु चासत्यण्ग्रहणे यथा प्राप्ते विधीयमाने णिनेरेवापवादः स्यात्? नैतदस्ति; एवं हि वचनमनर्थकं स्यात्। तस्माद्यो विहितो न च प्राप्नोत्यनेन कबाधितत्वात् स एव भविष्यति, स चाणेव। "एवमादि" इति। आदिशब्देन मौदाः,पैप्पलादाः, शाकलाः, जाजलाः-- इत्येतेषां ग्रहणम्। असत, त्वच्ग्रहणे सर्वमेव न सिध्येत्; "वृद्धाच्छः" ४।२।११३ इति छेनाण औत्सर्गिकस्य बाधितत्वात्॥
बाल-मनोरमा
कलापिनोऽण् १४६७, ४।३।१०८

कलापिनोऽण्। "तेन प्रोक्त"मित्येव वैशम्पायनशिष्यत्वात् प्राप्तस्य णिनेरपवादः। कालापा इति। कलापिन्शब्दादणि टिलोपे कालापशब्दादध्येतृप्रत्ययस्य छस्य लुगिति भावः।

"इनण्यनपत्ये" इति प्रकृतिभावमाशङ्क्याह--नान्तस्येति।

तत्त्व-बोधिनी
कलापिनोऽण् ११४७, ४।३।१०८

कलापिनोऽण्। वैशंपायनान्तेवासित्वात्प्राप्तस्य णिनेरपवादः। "इनण्यनपत्ये"इति प्रकृतिभावे प्राप्ते आह--।

नान्तस्य टिलोपे सब्राहृचारिपीठसर्पिकलापिकौथमितैतिलिजाजलिलाङ्गलिशिलालिलशिखाण्डिसूकरसद्मसुपर्वणामुपसङ्ख्यानम्। नान्तस्य टिलोप इति। माथुरी वृत्तिः, मौदाःल पैप्पलादाः शाकला इति सिद्धम्। मुद पिप्पलाद शाकल---एभ्यः "पुरामप्रोक्तेषु"इति णिनेरपवादोऽण्। छगलिनो ढिनुक्। कलाप्यन्तेवासित्वात्प्राप्तस्य णिनेरपवादोऽयम्।