पूर्वम्: ४।३।१०
अनन्तरम्: ४।३।१२
 
सूत्रम्
कालाट्ठञ्॥ ४।३।११
काशिका-वृत्तिः
कालाट् ठञ् ४।३।११

कालविशेषवाचिनः प्रातिपदिकात् ठञ् प्रत्ययो भवति शैषिकः। अणो ऽपवादः। वृद्धात् तु छं परत्वाद् बाधते। मासिकः। आर्धमासिकः। सांवत्सरिकः। यथाकथञ्चिद् गुणवृत्त्या अपि काले वर्तमानात् प्रत्यय इष्यते। कादम्बपुष्पिकम्। व्रैहिपलालिकम्। तत्र जातः ४।३।२५ इति प्रागतः कालाधिकारः।
लघु-सिद्धान्त-कौमुदी
कालाट्ठञ् १०८७, ४।३।११

कालवाचिभ्यष्ठञ् स्यात्। कालिकम्। मासिकम्। सांवत्सरिकम्। (अव्ययानां भमात्रे टिलोपः)। सायम्प्रातिकः। पौनः पुनिकः॥
न्यासः
कालाट्ठञ्। , ४।३।११

"कालविशेषवाचिनः" इति। अनेन कालादित्यर्थग्रहणम्, न स्वरूपस्येति। यदि हि स्वरूपगर्हणं स्यात्, सन्धिवेलादि ४।३।१६ सूत्रेणाणो विधानमनर्थकं स्यात्; "प्राग्दीव्यतोऽण्" ४।१।८३ इत्यनेनैव सिद्धत्वात्। इह त्वर्थग्रहणे ठञ्बाधनार्थत्वात् तस्यानर्थक्यं भवति। तस्मादर्थग्रहणमेतत्। इह केचिच्छब्दा मुख्यया वृत्त्या काले वत्र्तन्ते-- मासोऽर्धमास इति,केचिद्गौण्या वृत्त्या-- कदम्बपुष्पसाहचर्यात् कालः कदम्बपुष्पः,व्रीहिपलालेन साहचर्यात् कालो व्रीहिपलाल इति; तेषामिहोभयेषामपि ग्रहणम्। अत एवाह-- "यथा कथञ्चित्" इति। येन केनचित्प्रकारेणेत्यर्थः। "गुणवृत्त्याऽपि" इति। अनेन यथाकथञ्चिदित्यस्यार्थं विस्पष्टीकरोति। औपचारिकी, वृत्तिः, अप्रधानभूता वृत्तिरित्यर्थः। अपिशब्दान्मुख्यायपि वृत्त्या। ननु च मुख्ये सति गौणस्य ग्रहणमयुक्तम्, गौणमुख्ययोर्मुख्ये, कार्यसम्प्रत्ययात् (व्या।प।४)? नैष दोषः; आचार्यप्रवृत्तिज्र्ञापयति-- गौणस्यापि कालस्य ग्रहणमिति, यदयं सन्धिवेलादिसूत्रे ४।३।१६ प्रकृतेन कालग्रहणेन नक्षत्राणि विशिनष्टि। न हि मुख्यार्थः कालो नक्षत्राणां विशेषणमुपपद्यते। तेषु मुख्यस्य कालत्वस्यासम्भवात्॥
बाल-मनोरमा
कालाट्ठञ् १३६१, ४।३।११

कालाट्ठञ्। "कालशब्दस्यैव न ग्रहणं, किन्तु कालशब्दस्य, कालविशेषवाचकानां च ग्रहण"मिति "तदस्य परिमाणं" "सङ्ख्यायाः" इति सूत्रभाष्ये स्पष्टम्। तदाह--कालवाचिभ्य इति। सायंप्रातिकः पौनःपुनिक इति। "अव्ययानां भमात्रे" इति टिलोपः। "सायञ्चिर"मिति ठ्युठ्युलौ तु न भवतः, "नस्तद्धिते" इति सूत्रभाष्ये तथा प्रयोगदर्शनात्। शार्वरस्येति। समानकालिकं प्राक्रालिकमिति भाव्यमित्यर्थः। प्रामाणिका इति। केचित्तु अमुकः पुरतः परेद्युरित्यादिवदेतेऽपि शब्दा अव्युत्पन्नाः, पृष्टोदरादयो वा साधव इत्याहुः। इति यावदिति। व्याख्यानादिति भावः।

तत्त्व-बोधिनी
कालाट्ठञ् १०७२, ४।३।११

कालाट्ठञ्। स्वरूपस्यैव न ग्रहणं, संधिवेलादिसूत्रेण संधिवेलात्रयोदशीचतुर्दशी--प्रभृतिभ्योऽवृद्धेभ्योऽपि ठञ्वाधनार्थमण्विधानात्। किं तु सर्वेषामपि कालवाचिनां ग्रहणमित्याशयेनाह---कालावाचिभ्य इति। यत्तु "स्वरूपस्य पर्यायाणां च न ग्रहण "मिति पदमञ्जर्यादिषु स्थितम्। तदसत्। "कालिकः संबन्धः", "कालिकी व्याप्ति"रित्यादिप्रयोगाऽनापत्तेः। न च विशेषाणामेव सन्धिवेलादिसूत्रेण सन्धिवेलादिभ्योऽण्विधानं ज्ञापकमिति वाच्यं, तस्य स्वरूपमात्रग्रहणनिरासकत्वेनापि साफल्यात्। गौणमुख्यन्यायस्त्विह नाश्रीयते। तेन कदम्बपुष्पसाहचर्यात्कदम्बपुष्पः कालः, व्रीहिपलालसाहचर्याद्व्रीहिपलालः कालः, तत्र भवं कादम्बपुष्पिकं व्रैहिपलालिकमित्याकरः। अत्रहि प्रमाणं सन्धिवेलादिसूत्रे अनेन कालग्रहणेन नक्षत्राणां विशेषणमेवेत्याहुः। न च पुष्पदिशब्दानां कालो मुख्य एवार्थः, "लुबविशेषे"इति व्युत्पादनात्, तथा च कालविशेषणमुक्तार्थे न प्रमाणमिति वाच्यं, पुष्यादिसमीपस्थचन्द्रमसा युक्ते काले पुष्यादिशब्दानां गौणत्वात्। "लुबविशेषे"इति शास्त्रमपि गौणवृत्तित्वान्वाख्यायकमेवेति दिक्। एवं स्थिते "कालवाचिभ्य"इति मूलस्य "कालप्रतिपादकेभ्यः"इति फलितोऽर्थः।