पूर्वम्: ४।३।११३
अनन्तरम्: ४।३।११५
 
सूत्रम्
उरसो यच्च॥ ४।३।११४
काशिका-वृत्तिः
उरसो यच् च ४।३।११४

उरस्शब्दात् यत् प्रत्ययो भवति, चकारात् तसिश्च, तेन एकदिकित्येतस्मिन् विषये। अणो ऽपवादः। उरसा एकदिगुरस्यः, उरस्तः।
न्यासः
उरसो यच्च। , ४।३।११४

बाल-मनोरमा
उरसो यच्च १४७३, ४।३।११४

उरसो यच्च। उरसा एकदिगित्यर्थे तृतीयान्तादित्यर्थः।