पूर्वम्: ४।३।११५
अनन्तरम्: ४।३।११७
 
सूत्रम्
कृते ग्रन्थे॥ ४।३।११६
काशिका-वृत्तिः
कृते ग्रन्थे ४।३।११६

तेन इत्येव। तृतीयासमर्थात् कृते इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यत् तत्कृतं ग्रन्थश्चेत् स भवति। वररुचिना कृताः वाररुचाः श्लोकाः। हैकुपादो ग्रन्थः। भैकुराटो ग्रन्थः। जालूकः। ग्रन्थे इति किम्? तक्षकृतः प्रासादः। उत्पादितं कृतं, विद्यामानाम् एव ज्ञातम् औपज्ञातम् इत्ययम् अनयोर् विशेषः।
न्यासः
कृते ग्रन्थे। , ४।३।११६

कः पुनः कृतोपज्ञयोर्विशेषः, येनोपज्ञायत इति प्रकृते सति कृतग्रहणं क्रियते? इत्याह्-- "उत्पादितम्" इत्यादि॥
बाल-मनोरमा
कृते ग्रन्थे १४७५, ४।३।११६

कृते ग्रन्थे। "तेन कृतो ग्रन्थ" इत्यर्थे तृतीयान्ताद्यर्थाविहितं प्रत्ययाः स्युरित्यर्थः।