पूर्वम्: ४।३।११८
अनन्तरम्: ४।३।१२०
 
सूत्रम्
क्षुद्राभ्रमरवटरपादपादञ्॥ ४।३।११९
काशिका-वृत्तिः
क्षुद्राभ्रमरवटरपादपादञ् ४।३।११९

तेन, कृते, संज्ञायाम् इति सर्वम् अनुवर्तते। क्षुद्रादिभ्यः अञ् प्रत्ययो भवति तेन कृते इत्येतस्मिन् विषये संज्ञायां गम्यमानायाम्। अणो ऽपवादः। स्वरे विशेषः। क्षुद्रादिभिः कृतं क्षौद्रम्। भ्रामरम्। वाटरम्। पादपम्।
न्यासः
क्षुद्राभ्रमरवटरपादपादञ्। , ४।३।११९

"स्वरे विशेषः" इति। अणि हि प्रत्ययस्वरेणान्तोदात्तत्वं स्यात्। अञि तु सति ञित्स्वरेणाद्युदात्तत्वं भवति॥
बाल-मनोरमा
क्षुद्राभ्रमरवटरपादपादञ् १४७८, ४।३।११९

क्षुद्राभ्रमर। "तेन कृते संज्ञाया"मिति-सेषपूरणम्। क्षुद्राः=मधमक्षिकाः।