पूर्वम्: ४।३।१२०
अनन्तरम्: ४।३।१२२
 
सूत्रम्
रथाद्यत्॥ ४।३।१२१
काशिका-वृत्तिः
रथाद्यत् ४।३।१२१

रथशब्दात् यत् प्रत्ययो भवति तस्य इदम् इत्येतस्म्न् विषये। अणो ऽपवादः। रथस्य इदम् रथ्यं, चक्रं वा युगं वा। रथाङ्ग एव इष्यते, न अन्यत्र अनभिधानात्। रथसीताहलेभ्यो यद्विधाविति तदन्तविधिरुपसङ्ख्यायते। परमरथ्यम्। उत्तमरथ्यम्।
न्यासः
रथाद्यत्। , ४।३।१२१

"नान्यत्र" इति। सन्नाहादौ॥
बाल-मनोरमा
रथाद्यत् १४८०, ४।३।१२१

रथाद्यत्। "तस्येद"मित्येव। रत्यं चक्रमिति। "रथाद्रथाङ्गे" इति वचनाच्चकमिति विशेष्यम्।

तत्त्व-बोधिनी
रथाद्यत् ११५४, ४।३।१२१

रथाद्यत्। अणोऽपवादः। "रथाद्रथाङ्गे"इति वार्तिकमिभिप्रेत्याह---रथ्यं चक्रमिति। "रथसीताहलेभ्यो यद्विधौ"इति तदन्तविधिरूपसङ्ख्यायते। परमरथ्यम्। उत्तमरथ्यम्। द्वयो रथयोरङ्गं द्विरथम्। इह "द्विगोर्लुगनपत्ये"इति यतो लुक्। ननु यत्प्रत्ययोऽत्र रथाङ्ग एव यदीष्यते कथं तर्हि "रथस्य वोढा रथ्यः"इति?। "तद्वहती"त्यनेनेति चेत्। एवं तर्हि अयमेव यद्रथाङ्ग इव वोढर्यीष्यतां, "तद्वहति रथयुगप्रासङ्ग"मित्यत्र रथग्रहणं त्यज्यतामिति चेत्।मैवम्। द्वौ रथौ वहति द्विरथ्य इत्यत्र "द्विगोर्लुगनपत्ये"इति प्राग्दीव्यतीयस्य लुक्()प्रसङ्गात्। "तद्वहती"ति यत्प्रत्ययस्य तु प्राग्दीव्यतीयत्वाऽभावान्न लुगिति "द्विरथ्य "इति सिध्यतीति। ननु "द्विगोर्लुगनपत्ये"इत्यत्राऽचीत्य[स्या]पकर्षणात्कथमत्र यतो लुक्प्रसक्तिरिति चेत्। अत्राहु---"तद्वहती"त्यत्र रथग्रहणमेव ज्ञापकम्---"एतस्य यतो हलादेरपि लुग् भवती"ति। अन्यथा तत्र रथग्रहणं व्यर्थमेव स्यात्। तथा च द्वयो रथयोरङ्गमिति विग्रहे द्रिरथमिति प्रयोगः सुस्थ इति।