पूर्वम्: ४।३।१२१
अनन्तरम्: ४।३।१२३
 
सूत्रम्
पत्त्रपूर्वादञ्॥ ४।३।१२२
काशिका-वृत्तिः
पत्रपूर्वा दञ् ४।३।१२२

पतन्ति तेन इति पत्रम् अश्वादिकं वाहनम् उच्यते। तत्पूर्वाद् रथशब्दातञ् प्रत्ययो भवति तस्य इदम् इत्येतस्मिन् विषये। पूर्वस्य यतो ऽपवादः। आश्वरथं चक्रम्। औष्ट्ररथम्। गार्दभरथम्।
न्यासः
पत्त्रपूर्वादञ्। , ४।३।१२२

बाल-मनोरमा
पत्रपूर्वादञ् १४८१, ४।३।१२२

पत्रपूर्वादञ्। रथादित्येव। पत्रं वाहनमिति। "पत्रं वाहनपक्षयो"रिति कोशः।

तत्त्व-बोधिनी
पत्त्रपूर्वादञ् ११५५, ४।३।१२२

पत्त्रपूर्वादञ्। पूर्वस्य यतोऽपवादः। पत्रमिति। पतन्त्यनेनेति विग्रहे "दाम्नि"त्यादिना ष्ट्रन्। अ()आरथस्येदमिति। अ()आयुक्तो रथोऽ()आरथस्तस्याङ्गमित्यर्थः। पत्राध्वर्यु। अणोऽपवादः।

पत्राद्वाह्रे। पत्त्राद्वाह्र इति। इह पत्त्रेत्यर्थग्रहणे, इतरोयस्तु स्वरूपग्रहणे व्याख्यानमेव शरणम्।