पूर्वम्: ४।३।१२७
अनन्तरम्: ४।३।१२९
 
सूत्रम्
शाकलाद्वा॥ ४।३।१२८
काशिका-वृत्तिः
शाकलाद् वा ४।३।१२८

शाकलशब्दात् सङ्घादिषु प्रत्ययार्थविशेषनेषु वा अण्प्रत्ययो भवति तस्य इदम् इत्येतस्मिन् विषये। वुञो ऽपवादः। शाकलेन प्रोक्तम् अधीयते शाकलाः। तेषां सङ्घः शाकलः, शाकलकः। शाकलो ऽङ्कः, शाकलको ऽङ्कः। शाकलं लक्षणम्, शाकलकं लक्षणम्। शाकलो घोषः, शाकलको घोषः।
न्यासः
शाकलाद्वा। , ४।३।१२८

"वुञोऽपवादः" इति। चरणलक्षमस्य शाकलशब्दस्य चरणलक्षणत्वात्। "शाकलाः" इति। शाकल्यशब्दाद्गर्गादियञन्तात् "कण्वादिभ्यो गोत्रे" ४।२।११० इति प्रोक्तार्थेऽ ण्। "आपत्यस्य च तद्धितेनाति" ६।४।१५१ इति यलोपः। शाकल इति स्थिते "तदधीते तद्वेद" ४।२।५८ इत्यण्, तस्य प्रोक्ताल्लुक् ४।२।६३--शाकलाः, तेषां सङ्घः शाकलः, शाकलक इति वा॥
बाल-मनोरमा
शाकलाद्वा १४८७, ४।३।१२८

शाकलाद्वा। शाकलेनेति। शकलशब्दात्प्रोक्ताणन्तादध्येतृप्रत्ययस्य लुकि शाकलशब्दात् "गोत्रचरणा" दिति धर्माम्नाययोर्वुञोऽपवादोऽण्। तदभावे वुञ्।