पूर्वम्: ४।३।१२
अनन्तरम्: ४।३।१४
 
सूत्रम्
विभाषा रोगातपयोः॥ ४।३।१३
काशिका-वृत्तिः
विभाषा रोगाऽतपयोः ४।३।१३

शरदः इत्येव। रोगे आतपे च अभिधेये शरच्छब्दाट् ठञ् प्रत्ययो वा भवति शैषिकः। ऋत्वणो ऽपवादः। शारदिको रोगः। शारदिकः आतपः। शारदो रोगः। शारदः आतपः। रोगातपयोः इति किम्? शारदं दधि।
न्यासः
विभाषा रोगातपयोः। , ४।३।१३

बाल-मनोरमा
विभाषा रोगातपयोः १३६३, ४।३।१३

विभाषा रोगातपयोः। "ठ"ञिति शरद इति चानुवर्तते। शारदं दधीति। ञत्वणिति भावः।