पूर्वम्: ४।३।१२९
अनन्तरम्: ४।३।१३१
 
सूत्रम्
न दण्डमाणवान्तेवासिषु॥ ४।३।१३०
काशिका-वृत्तिः
न दण्डमाणवान्तेवासिषु ४।३।१३०

दण्डप्रधाना मानवाः दण्डमाणवाः, अन्तेवासिनः शिष्याः। तेष्वभिधेयेषु वुञ् प्रत्ययो न भवति। गोत्रग्रहणम् इह अनुवर्तते, तेन वुञ्प्रतिषेधो विज्ञायते। गौकक्षाः दण्डमाणवाः अन्तेवासिनो वा। दाक्षाः। माहकाः।
न्यासः
न दण्डमाणवान्तेवासिषु। , ४।३।१३०

"दण्डप्रधाना माणवा दण्डमाणवाः" इति। मद्यमपदलोपिसमासं दर्शयति। स पुनर्मयूख्यंसकादित्वाद्वेतिव्यः। मयूरव्यंसकादेराकृतिगणत्वात्। "वुञ्प्रत्ययो न भवति" इति। एतेन वुञोऽयं प्रतिषेध इति दर्शयति। कथं पुनज्र्ञायते वुञोऽयं प्रतिषेध? इत्याह-- "गोत्रग्रहणम्" इत्यादि। इह हि गोत्रग्रहणमनुवत्र्तते "गोत्रचरणाद्()वुञ्" ४।३।१२६ इत्यतः, तेनायमर्थो भवति-- "तस्येदम्" ४।३।१२० इत्येतस्मिन्नर्थे यः प्रत्ययो गोत्रात् प्राप्नोति स दण्डमाणवान्तेवासिषु न भवतीति, गोत्रे वुञेव प्राप्नोतीति, अतस्तस्यैवायं प्रतिषेधो विधीयते। गौकक्ष्यशब्दाद्गर्गादियञन्तात् "कण्वादिभ्यो गोत्रे" ४।२।११० इत्यण्, पूर्ववद्यलोपः। "दाक्षाः" इति। दाक्षिप्लाक्षिमाहकिब्यः "इञश्च" ४।२।१११ इत्यण्॥
बाल-मनोरमा
न दण्डमाणवान्तेवासिषु १४८९, ४।३।१३०

न दण्ड। दण्डमाणवाश्च अन्तेवासिनश्च तेष्विति द्वन्द्वः। दाक्षा इति। दक्षस्यापत्यं दाक्षिः, तस्येमे दण्डमाणवाः, शिष्या वेत्यर्थे गोत्रत्वलक्षणो वुञ् न भवति, किंत्वौत्सर्गिकोऽणेव।

तत्त्व-बोधिनी
न दण्डमाणवान्तेवासिषु ११५८, ४।३।१३०

न दण्ड।"तस्येदमि"त्यनुवर्तते। तेषु शिष्यषु चेति। "प्रत्ययार्थविशेषणेष्वि"ति शेषः। दाक्षा इति। "इञश्चे"त्यण्।