पूर्वम्: ४।३।१३३
अनन्तरम्: ४।३।१३५
 
सूत्रम्
बिल्वादिभ्योऽण्॥ ४।३।१३४
काशिका-वृत्तिः
बिल्वाऽदिभ्यो ऽण् ४।३।१३६

बिल्व इत्येवम् आदिभ्यो ऽण् प्रत्ययो भवति विकारावयवयोरर्थयोः। यथायोगम् अञ्मयटोरपवादः। बिल्वस्य विकारो ऽवयवो वा बैल्वः। गवेधुकाशब्दो ऽत्र पठ्यते, ततः कोपधातेव सिद्धे मयड्बाधनार्थं ग्रहणम्। विल्व। व्रीहि। काण्ड। मुदग्। मसूर। गोधूम। इक्षु। वेणु। गवेधुका। कर्पासी। पाटली। कर्कन्धू। कुटीर। बिल्वादिः।
न्यासः
बिल्वादिभ्योऽण्। , ४।३।१३४

"अञ्मयटोरपवादः" इति। यदत्रानुदात्तादि तस्मात् "अनुदात्तादेश्च" ४।३।१३८ इति प्राप्तस्याञोऽपवादः। यद्()वृद्धं ततः "नित्यं वृद्धशरादिभ्यः" ४।३।१४२ इति मयटः। तत्र बिल्वशब्दस्य प्रातिपदिकस्वरेणान्तोदात्तत्वे प्राप्ते "बिल्वतिष्ययोर्वान्तस्वरितत्वम्" (फि।सू।१।२३) इति स्वरितत्वं भवति, उदात्तो वा। "व्रीहिमुद्ग" शब्दौ घृतादित्वादन्तोदात्तौ। "मसूरगोधूम" शब्दौ "लघावन्ते द्वयोश्च बह्वषो गुरुः" (फि।सू।२।४२) इति मध्योदात्तौ। एवं "गवेधुका" शब्दोऽपि। इषेः क्सुः, "इक्षुः"। प्रत्ययस्वरेणान्तोदात्तः। "वेणुः" शब्दोऽपि "विभाषा वेण्विन्धानयोः" ६।१।२०९ इतिपक्षेऽन्तोदात्त एव। "कर्पासीपाटली" शब्दौ "जातेरस्त्रीविषयादयोपधात्" इति ङीषन्तौ। ङीष्प्रत्ययान्तत्वान्ङीष्प्त्ययस्वरेणान्तोदात्तौ। "कर्कन्धू" शब्दः "अन्दूदृग्भूजम्बूकफेलूकर्कन्धूदिधिषूः" (द।उ।१।१७६) इति निपातनान्मध्योदात्तः। "कुटीर" शब्दः "लघावन्ते" (फि।सू।२।४२) इत्यादिना मध्योदात्तः। सर्व एते "अनुदात्तं पदमेकवर्जम्" ६।१।१५२ इत्यनुदात्तादयः। तेनाञ्बाधनार्थं ग्रहणमिति। अथाण्ग्रहणं किमर्थम्, न बिल्वादिभ्यो यथाविहितमेवोच्येत? नैवं शक्यम्; पाटलीशब्दो ह्रत्र वृद्धः पठ()ते, तस्मादञो बाधके मयटि प्राप्ते पुनर्वचनादञेव स्यात्। अण्ग्रहणात् त्वणेव भवति। तस्मादण्ग्रहणं क्रियते॥ "यथायोगम्" इति। प्राण्योषधिवृक्षेभ्यो विकारावयवयोः, अन्येभ्यस्तु विकारमात्र इत्येषो यतायोगार्थः। "अञोऽपवादः" इति। "ओरञ्" ४।३।१३७, "अनुदात्तादेः" ४।३।१३८ इत्येताभ्यां प्राप्तस्य। "तित्तिडीकमाण्डूक दर्दुरूकमधूक"शब्दाः "लघावन्ते" (फि।सू।२।४२) इत्यादिना मध्योदात्ताः,तेनानुदात्तादयो भवन्ति॥
बाल-मनोरमा
बिल्वादिभ्योऽण् १४९५, ४।३।१३४

विल्वादिभ्योऽण्। एषु प्राण्योषधिवृक्षेभ्यः अवयवे विकारे च, इतरेभ्यस्तु विकारे अण् स्यादित्यर्थः। बैल्वमिति। बिल्वस्यावयवो विकारो वेत्यर्थः। बिल्व, व्रीहि काण्ड, मुद्ग, मसूर, गोधूम, इक्षु, वेणु, गवेधुक, कार्पासी, पाटली, कर्कन्धू, कटी"ति बिल्वादयः। तत्र गवेदुकस्य "कोपधाच्चे"त्यणि सिद्धे मयड्बाधनार्थमिह पाठः। इतरेषां तु "अनुदात्तादेश्चे"त्यञो बाधनार्थमिति कौस्तुभे विस्तरः।

तत्त्व-बोधिनी
बिल्वादिभ्योऽण् ११६४, ४।३।१३४

बिल्वादिभ्योऽण्। अञ्मयटोरपवादः। बिल्व व्राहि काण्ड मुद्ग मसूर गोधून इक्षु कर्पासी वेण्वादयो--बिल्वादयः।