पूर्वम्: ४।३।१३४
अनन्तरम्: ४।३।१३६
 
सूत्रम्
कोपधाच्च॥ ४।३।१३५
काशिका-वृत्तिः
कौपाधाच् च ४।३।१३७

ककारौपधात् प्रातिपदिकादण् प्रत्ययो भवति यथायोगं विकारावयवयोरर्थयोः। अञो ऽपवादः। तर्कु तार्कवम्। तित्तिडीकतैत्तिडीकम्। माण्डूकम्। दार्दुरूकम्। माधूकम्।
बाल-मनोरमा
कोपधाच्च १४९६, ४।३।१३५

कोपधाच्च। "अ"णिति शेषः। तत्र प्राण्योषधिवृक्षेभ्योऽवयवे विकारे च, इतरेभ्यस्तु विकारे एव तर्कु--तार्कवमिति। तर्कु इति प्रकृतिनिर्देशः। तर्कुर्नाम--वृक्षविशेषः, तस्यावयवो विकारो वेत्यर्थः। "ओर"ञित्यस्यापवादोऽण्। तित्तिङीकशब्दो "लघावन्ते" इति मध्योदात्तः। "अनुदात्तादेश्चे"कत्यञोऽपवादोऽण्।