पूर्वम्: ४।३।१३६
अनन्तरम्: ४।३।१३८
 
सूत्रम्
ओरञ्॥ ४।३।१३७
काशिका-वृत्तिः
ओरञ् ४।३।१३९

उवर्णान्तात् प्रातिपदिकातञ् प्रतयो भवति विकारावयवयोरर्थयोः। अणो ऽपवादः। अनुदात्तादेरन्यदिहोदाहरणम्। दैवदारम्। भाद्रदारवम्।
न्यासः
ओरञ्। , ४।३।१३७

"अनुदात्तादेरन्यदिहोदाहरणम्" इति। अनुदात्तादेरुत्तरसूत्रेणैव सिद्धत्वात्। "दैवदारवम्, भाद्रदारवम्" इति। देवदारुभद्रदारुशब्दौ "पीतद्रवर्थानाम्" (फि।सू।२।३७) इत्याद्युदात्तौ। तस्यायमर्थः--पीतद्रुः अर्थो येषां ते पीतद्रवर्थाः, तेषां पीतद्रवर्थवचनानामादिरुदायो भवति॥ "दाधित्थम्" इत्यादि। दध्नि तिष्ठतीति, कपौ तिष्ठतीति --सुपि स्थः" ३।२।४ इति कः,"अतो लोपः" ६।४।४८ इत्यकारलोपः, पृषोदरादित्वात् सकारस्य तकारः,उपपदसमासः, समासस्वरेणान्तोदात्तौ। तेन दधित्थकपित्थशब्दावनुदात्तादी भवतः॥
बाल-मनोरमा
ओरञ् १४९८, ४।३।१३७

ओरञ्। उवर्णादढ् स्यादित्यर्थः। प्राण्योषधिवृक्षेभ्योऽवये विकारे च, इतरेभ्यस्तु विकारे। दैवदारवं भाद्रदारवमिति। देवदारोर्भद्रदारोश्चावयवो विकारो वेत्यर्थः। "पीतद्वर्थाना"मित्याद्युदात्तावेतौ। ततश्च "अनुदात्तादेश्चे"त्यनेन गतार्थता न।

तत्त्व-बोधिनी
ओरञ् ११६६, ४।३।१३७

ओरञ्। अनुदात्तादेरन्यदिहोदाहरणम्। दैवदारवमिति। देवदारु--भद्रदारुशब्दौ "मितद्र्वर्थानामि"त्याद्युदात्तौ।