पूर्वम्: ४।३।१३
अनन्तरम्: ४।३।१५
 
सूत्रम्
निशाप्रदोषाभ्यां च॥ ४।३।१४
काशिका-वृत्तिः
निशाप्रदोषाभ्यां च ४।३।१४

निशाप्रदोषशब्दाभ्यां च विभाषा ठञ् प्रत्ययो भवति शैषिकः। कालाट् ठञ् ४।३।११ इति नित्ये ठञि प्राप्ते विकल्प उच्यते। नैशिकम्, नैशम्। प्रादोषिकम्, प्रादोषम्।
न्यासः
निशाप्रदोषाभ्याञ्च। , ४।३।१४

न्यासः
नित्यं वृद्धशरादिभ्यः। , ४।३।१४

प्राग्दीव्यतीयाणो ह्रपवादो मयडारभ्यते, अणं तु कोपधलक्षणम्, अञमुवर्णान्तलक्षणमनुदात्तादिलक्षणं च परत्वाद्बाधते। "आरम्भसामथ्र्यादेव नित्यं भविष्यति" इति। यदि ह्रनित्यः स्यात्, अस्य सूत्रस्यारम्भोऽनर्थकः स्यात्; पाक्षिकस्य मयटः पूर्वेणैव सिद्धत्वात्। "तदनेन क्रियते" इति। यत् तदेकेषामाचार्याणामिष्टम्। तदनेन नित्यग्रहणेन सफलं क्रियत इत्यर्थः। कथं योगविभागः क्रियते? तद्यथा द्वारं द्वारमिति शब्दाधिक्यादर्थाधिक्यं भवतीति नित्यग्रहणेनायमर्थः सूच्यते। यद्येवम्, नित्यग्रहणादेव मृच्छशब्दस्यापि नित्योऽयं मयट् सिद्धः, तदपार्थकोऽस्य शरादिषु पाठः? नानर्थकः; नित्यग्रहणस्यैवोदाहरणप्रदर्शनार्थत्वात्॥
बाल-मनोरमा
निशाप्रदोषाभ्यां च १३६४, ४।३।१४

निशाप्रदोषाभ्यां च। वा ठञ् स्यादिति। शेषपूरणम्। "कालाट्ठ"ञिति नित्यं प्राप्ते विकल्पोऽयम्।