पूर्वम्: ४।३।१४१
अनन्तरम्: ४।३।१४३
 
सूत्रम्
नित्यं वृद्धशरादिभ्यः॥ ४।३।१४२
काशिका-वृत्तिः
नित्यं वृद्धशराऽदिभ्यः ४।३।१४४

भाषायाम् अभक्ष्याच्छादनयोः इत्येव। वृद्धेभ्यः प्रातिपदिकेभ्यः शरादिभ्यश्च अभक्ष्याच्छादनयोः विकारावयवयोः भाषायां विषये नित्यं मयट् प्रत्ययो भवति। वृद्धेभ्यस् तावत् आम्रमयम्। शालमयम्। शाकमयम्। शरादिभ्यः शरमयम्। दर्भमयम्। मृन्मयम्। नित्यग्रहणं किं यावता आरम्भसामर्थ्यादेव नित्यं भविस्यति? एकाचो नित्यं मयटमिच्छन्ति, तदनेन क्रियते, त्वङ्मयम्, स्रङ्मयम् , वाङ्मयम् इति। शर। दर्भ। मृत्। कुटी। तृण। सोम। बल्वज। शरादिः।
लघु-सिद्धान्त-कौमुदी
नित्यं वृद्धशरादिभ्यः १११६, ४।३।१४२

आम्रमयम्। शरमयम्॥
बाल-मनोरमा
नित्यं वृद्धशरादिभ्यः १५०३, ४।३।१४२

नित्यं वृद्ध। "मय"डिति शेषः। उक्तविकल्पस्यापवादः।

एकाचो नित्यमिति। "नित्य"मिति योगविभागलब्धमिदम्। अण्णन्तादिति। अपामिदमापम्। "तस्येद"मित्यण्। ततः स्वार्थे चतुर्वर्णादित्वात् ष्यञि आप्यमिति रूपमित्यर्थः।

तत्त्व-बोधिनी
नित्यं वृद्धशरादिभ्यः ११७१, ४।३।१४२

नित्यं वृद्ध। इह "भाषायामभक्ष्याच्छादनयो"रित्यनुवर्तत इति वृत्तिः। नन्वेवमानन्दमयाधिकरणे शङ्कराचार्यैः "अन्योन्तर आत्मानन्दमयः"इति श्रुतौ "आनन्दमय इति विकारे मय"डित्युक्तं तत्कथं सङ्गच्छतां()। "प्राचुर्ये मय"डिति तु वक्तुमुचितमिति चेत्। अत्राहुः---प्राचुर्ये मयट()पि प्रकृत्यर्थविरोधिनो दुःखस्य लेशतोऽनुवृत्तिलाभात्प्रकृते विकारार्थः पर्यवस्यतीति तेषामाशयः। यद्वा "नित्यं वृद्धे"त्यत्र भाषाग्रहणं नानुवर्तते। अनुवृत्तावपि "भाषायां नित्यम्, अन्यत्र क्वाचित्कः"इत्याश्रित्य मयट् सुसाधः। अथ वा "हेतुमनुष्येभ्य"इत्यनुवर्तमाने "मयट् चे"ति सूत्रेण आगतार्थे मयट्। विकार इति त्वार्थिकार्थकथनमेव। अतः शङ्करभगवत्पादोक्तिरनवद्यैवेति। शरमयमिति। शर दर्भ मृत्कटी तृण सोम बल्वज इति शरादिः।

एकाचो नित्यम्। एकाचो नित्यमिति।"नित्यं वृद्धे"ति नित्यग्रहणं योगविभागेनान्यत्रापि क्वचिद्विधानार्थं, तेनैतल्लभ्यत इति भावः। एकाच्त्वादेव सिद्धे शदादिषु मृच्छब्दपठनं विस्पष्टार्थमित्याहुः।