पूर्वम्: ४।३।१४३
अनन्तरम्: ४।३।१४५
 
सूत्रम्
पिष्टाच्च॥ ४।३।१४४
काशिका-वृत्तिः
पिष्टाच् च ४।३।१४६

पिष्टशब्दान् नित्यं मयट् प्रत्ययो भवति तस्य विकारः इत्येतस्मिन् विषये। अणो ऽपवादः। पिष्टमयं भस्म।
न्यासः
पिष्टाच्च। , ४।३।१४४

"अणोऽपवादः" इति। पिष्टशब्दोऽयं "निष्ठा च द्व्यजनात्" ६।१।१९९ इत्याद्युदात्तः, तेन तस्मादौत्सर्गिकः प्राप्नोति, ततस्तस्यायमपवादः॥
बाल-मनोरमा
पिष्टाच्च १५०५, ४।३।१४४

पिष्टाच्च। शेषपूरणेन सूत्रं व्याचष्टे--मयट् स्याद्विकारे इति।