पूर्वम्: ४।३।१४४
अनन्तरम्: ४।३।१४६
 
सूत्रम्
संज्ञायां कन्॥ ४।३।१४५
काशिका-वृत्तिः
संज्ञायां कन् ४।३।१४७

पिष्टशब्दात् कन् प्रत्ययो भवति विकारे संज्ञायां विषये। मयटो ऽपवादः। पिष्टकः।
न्यासः
संज्ञायां कन्। , ४।३।१४५

"मयटोऽपवादःरट इति। पूर्वसूत्रेण प्राप्तस्य। ननु च संज्ञायां कनं वक्ष्यत्येव, तदपार्थकं तद्विधानम्? नैतदस्ति; स ह्रल्पादिष्वर्थेषु, अयं तु विकारे। तदिदं सार्थकम्; अर्थभेदात्॥
बाल-मनोरमा
संज्ञायां कन् १५०६, ४।३।१४५

संज्ञायां कन्। विकारविशेष इति। अपूप इत्यर्थः। तदाह--पूपोऽपूपः पिष्टकः स्यादिति। अमरकोशोऽयम्। पुरोडाशस्तु न पिष्टकः, तस्यानपूपत्वात्। "()तुङ्गमनपूपाकृतिम()आशफमात्रं पुरोडाशं करोती"ति श्रुतेः।