पूर्वम्: ४।३।१४
अनन्तरम्: ४।३।१६
 
सूत्रम्
श्वसस्तुट् च॥ ४।३।१५
काशिका-वृत्तिः
श्वसस् तुट् च ४।३।१५

विभाषा इत्येव। श्वःशब्दाद् विभाष ठञ् प्रत्ययो ह्बवति, तस्य च तुडागमो भवति। त्यप्प्रत्ययो ऽप्यतो विहितः, ऐषमोह्यः श्वसो ऽन्यत्रस्याम् ४।२।१०४ इति। एताभ्यां मुक्ते ट्युट्युलावपि भवतः। शैवस्तिकः, श्वस्त्यः, श्वस्तनः।
न्यासः
�आसस्तुट् च। , ४।३।१५

तस्य {तस्य चेति इति मूलपाठः;पदमञ्जरीश्च।} वेति। ठञः। कुत एतत्? तस्य विधीयमानतया प्राधान्यात्, प्रधाने च कार्यसम्प्रत्ययात्। स च तुडागम इकादेशे कृते भवतीति वेदितव्यम्। ननु सन्नियोगशिष्टत्वात् तुटस्तेनैव तावद्भवितव्यम्, पश्चादङ्गसंज्ञायामभिनिर्वृत्तायामिकादेशेन? नैतदस्ति; उपेदशावस्थायामेव हीकादेशे कृते न भवितव्यम्, ज्ञापकात्। यदयं "वुञ्छण्कठच्" ४।२।७९ इति प्रत्ययस्वरार्थमनुबन्धं चकारं करोति। प्रत्ययसंज्ञायाः सन्नियोगाद्धि प्रत्ययस्वरे कृते पश्चादिकादेश इति सिद्धमन्तोदात्तत्वम्, किञ्चित्करणेन? तस्माच्चित्करणाद्विज्ञायते-- सन्नियोगशिष्टेभ्योऽपि पूर्वमिकादेशो भवति। तेन ठग्ग्रहणान्यङ्गसंज्ञाभूतानीकमेव बोधयन्तीति तुडपि तस्यैव भविष्यतीति विज्ञायते। "एताभ्याम्" इत्यादि। ()आःशब्दोऽयमव्ययं कालवाची। तेन यदा ठञ्त्यपौ न भवतः,तदा "सायञ्चिरम्"४।३।२३ इत्यादिना ट()उट()उलौ अपि भवतः॥
बाल-मनोरमा
�आसस्तुट् च १३६५, ४।३।१५

()आसस्तुट् च। तस्येति। प्रत्ययस्येत्यर्थः। तुटि टकार इत्। उकार उच्चारणार्थः।

तत्त्व-बोधिनी
�आसस्तुट् च १०७४, ४।३।१५

()आसस्तुट् च। विभाषेत्यनुवर्तनादाह--ठञ्वास्यादिति। "ऐषमोह्रः"इत्यादिना त्यबपि विकल्पेन विहितः। आभ्यां मुक्ते ठ्युट()उलावपि स्त एव।