पूर्वम्: ४।३।१४९
अनन्तरम्: ४।३।१५१
 
सूत्रम्
तालादिभ्योऽण्॥ ४।३।१५०
काशिका-वृत्तिः
तालाऽदिभ्यो ऽण् ४।३।१५२

तालाऽदिभ्यः प्रातिपदिकेभ्यः अण् प्रत्ययो भवति विकारावयवयोरर्थयोः। मयडादीनाम् अपवादः। तालं धनुः। बार्हिणम्। ऐन्द्रालिशम्। तालाद्धनुषि। बार्हिण। इन्द्रालिश। इन्द्रादृश। इन्द्रायुध। चाप। श्यामाक। पीयुक्षा। तालादिः।
न्यासः
तालादिभ्योऽण्। , ४।३।१५०

"मयडादीनामपवादः" इति। आदिशब्देनाञः।प्रकृतिभेदात् तयोर्बहुत्वस्य विवक्षित्वाद् द्वयोरपि बहुवचनम्। तत्र तालश्यामाकशब्दाभ्यां वृद्धलक्षणसय् मयटोऽपवादः। बर्हिणो विकारोऽवयवो वेति "प्राणिरजतादिभ्योऽञ्" ४।३।१५२ इत्यनेन बार्हिणशब्दोऽपि विकारावयवप्रत्यान्तः, तेन तस्मादञ् "ञितश्च तत्प्रत्ययात्" ४।३।१५३ इति प्राप्तस्याञोऽपवादः। शेषेभ्यस्त्विन्द्रालिशादिभ्योऽनुदात्तादिलक्षणस्याञः। लिशिदृशिभ्यामिन्द्र उपपदे "कप्रकरणे मूलविभुजादिब्य उपसंख्यानम्" (वा।२३२) इति कप्रत्ययः। "अन्येषामपि दृश्यते" ६।३।१३६ इति दीर्घत्वम्। "गतिकारकोपपदात् कृत्" ६।२।१३८ इति कृत्स्वरेणान्तोदात्तौ "इन्द्रालिशेन्द्रादृश" शब्दो। "इन्द्रा घु" शब्दः समासस्वरेणान्तोदात्तः। "चप सान्त्वने" (धा।पा।३९९) "पचाद्यच्" चपशब्दोऽन्तोदात्तः। पीयूक्षाशब्दः "लघावन्ते" (फि।सू।२।४२) इत्यादिना मध्यादात्तः। यद्यप्यस्य टापि कृते "लघावन्ते" (फि।सू।२।४२) नास्ति, प्राक्तु टापो विद्यत एव, तस्यामेवावस्थायां मध्योदात्तत्वं भवति। "तालाद्धनुषि" इति पठ()ते। तालशब्दादण् प्रत्ययो भवति धनुष्यभिधेय इति। तालं धनुः, तालमयमन्यत्। अथाण्ग्रहणं किमर्थम्, न यथाविहितमेवोच्येत? नैवं शक्यम्; बार्हिशब्दाद्()वृदिद्धिलक्षणो मयट् "ञितश्च तत्प्रत्ययात्" ४।३।१५३ इत्यणा बाधितः। तत्रारम्भसामथ्र्यादन्मयडेव स्यात्। "श्यामाक"-शब्दः "लघावन्ते" (फि।सू।२।४२) इत्यादिना मध्योदात्तः। तस्मात् "अनुदात्तादेरञ्" ४।२।४३। परत्वाद्()वृद्धलक्षणेन मय()टा बाधित इतिपुनरारम्भसामथ्र्यादञेव स्यात्। अण्ग्रहमादणेव भवति॥
बाल-मनोरमा
तालादिभ्योऽण् १५०९, ४।३।१५०

तालादिभ्योऽण्। तालाद्धनुषीति। गणसूत्रमिदम्। तालं धनुरिति। "नित्यं वृद्धे"ति मयटोऽपवादः। ऐन्द्रायुधमिति। "अनुदात्तादेश्चेत्यञोऽपवादः, समासस्वरेणान्तोदात्तत्वात्।

तत्त्व-बोधिनी
तालादिभ्योऽण् ११७४, ४।३।१५०

तालादिभ्योऽण्। अञ्मयटोरिति। तालशब्दश्यामाकशब्दाभ्यां वृद्धत्वान्मयट् प्राप्तः। बर्हिणां विकारो बार्हिणम्। "प्राणिरजतादिभ्योऽञ्"। ततो "ञितश्च तत्प्रत्यया"दित्यञ्प्राप्तः, शेषेभ्यस्त्वनुदात्तादित्वादञ्प्राप्तः। तथाहि विशिदृशिभ्यामिन्द्रशब्द उपपदे मूलविभुजादित्वात्कः। "अन्येषामपी"ति दीर्घः। इन्द्राविशः। इन्द्रादृशः। "चप सान्त्वने"पचाद्यच्। "चापपीयूक्षा"शब्दो "लघावन्ते--इति मध्योदात्तः "फिषः"इत्यदिकाराट्टापः प्रागेव स्वरप्रवृत्तेः। इन्द्रायुधशब्दः समासस्वरेणान्तोदात्तः। अण्ग्रहणं बाधकबाधानार्थम्। यथाविहितप्रत्ययविधौ बार्हिशब्दाद्वृद्धलक्षणो मयट् स्यात्, "ञितश्च तत्प्रत्यया"दित्यञो बाधनेन वचनस्य चरितार्थत्वादित्याहुः। तालाद्धनुषीति। गणसूत्रमिदम्। हाटक इति। इह वृद्धलक्षणो मयट् प्राप्तः। तपनीयदेः--"अनुदात्तादेश्चे"त्यञ्प्राप्तः।