पूर्वम्: ४।३।१५५
अनन्तरम्: ४।३।१५७
 
सूत्रम्
उमोर्णयोर्वा॥ ४।३।१५६
काशिका-वृत्तिः
उमाऊर्णयोर् वा ४।३।१५८

उमाशब्दादूर्णाशदच् च वा वुञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। औमकम्, औमम्। और्णकम् और्णम्।
न्यासः
उमोर्णयोर्वा। , ४।३।१५६

उमाशब्दस्तृणधान्यमित्याह (फि।सू।२।२७) नाद्युदात्तः, ऊर्णाशब्दोऽपि प्रातिपदिकस्वरेणान्तोदात्तः, ताभ्यां यथासंख्यमणञोः प्राप्तयोर्विभाषा वुञारभ्यते॥
बाल-मनोरमा
उमोर्णयोर्वा १५१५, ४।३।१५६

उमोर्णयोर्वा। "नु"ञिति शेषः। औमकमिति। उमा--सस्यविशेषः। "उमा स्यादतसी क्षुमा" इत्यमरः। उमाया विकारोऽवयवो वेत्यर्थः। औममिति। "तृणधान्यानां चे"त्युमाशब्द आद्युदात्तः। ततो वुञभावे "अनुदात्तादेश्चे"त्यञभावादौत्सर्गिकोऽण्। ऊर्णाशब्दस्तु फिट्स्वरेणान्तोदात्तः। ततो वुञभावे अनुदात्तादित्वादञित्यर्थः। "ऊर्णा मेषादिलोम्नि स्यादि"त्यमरः। "स्थूणोर्णे नपुंसके चे"ति लिङ्गानुशासनसूत्रम्।

तत्त्व-बोधिनी
उमोर्णयोर्वा ११७८, ४।३।१५६

अणञाविति। उमाशब्दः "तृणधान्यानां च" इत्याद्युदात्तः। ऊर्णाशब्दस्तु प्रातिपदिकस्वरेणान्तोदात्त इति भावः।