पूर्वम्: ४।३।१५६
अनन्तरम्: ४।३।१५८
 
सूत्रम्
एण्या ढञ्॥ ४।३।१५७
काशिका-वृत्तिः
एण्या ढञ् ४।३।१५९

एणीशब्दाद् ढञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। प्राण्यञो ऽपवादः। ऐणेयम् मांसम्। पुंसस्तु अञेव भवति। एणस्य मांसम् ऐणम्।
न्यासः
एण्या ढञ्। , ४।३।१५७

"पुंसस्त्वञेद भवति" इति। यदिह पुंसो ढञ् स्यात् पुंल्लिङ्गेनैव निर्देशं कुर्यादिति। पुंल्लिङ्ग न हि निर्देशे प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतीत्येणीशब्दादपि प्रत्ययो लभ्यत एव। तस्मात् स्त्रीलिङ्गनिर्देशादेव पुंसोऽञ् भवति, न ढञ्॥
बाल-मनोरमा
एण्या ढञ् १५१६, ४।३।१५७

एण्या ढञ्। एण्या अवयवो विकारो वा ऐणेयम्। ढस्य एयादेशः। "यस्येति चे"ति ईकारलोपः। स्त्रीलिङ्गनिर्देशस्य प्रयोजनमाह--एणस्य त्विति।

तत्त्व-बोधिनी
एण्या ढञ् ११७९, ४।३।१५७

एण्या ढञ्। प्राण्यञोऽपवादः। स्त्रीलिङ्गनिर्देशादाह---एणस्यत्विति।