पूर्वम्: ४।३।१५
अनन्तरम्: ४।३।१७
 
सूत्रम्
संधिवेलाऽ‌ऽद्यृतुनक्षत्रेभ्योऽण्॥ ४।३।१६
काशिका-वृत्तिः
सन्धिवेलाऽद्यृतुनक्षत्रेभ्यो ऽण् ४।३।१६

कालातित्येव। सन्धिवेलाऽदिभ्यः ऋतुभ्यो नक्षत्रेभ्यश्च कालवृत्तिभ्यो ऽण् प्रत्ययो भवति शैषिकः। ठञो ऽपवादः। अण्ग्रहणम् वृद्धाच्छस्य ४।२।११३ बाधनार्थम्। सन्धिवेलादिभ्यस् तावत् सान्धिवेलम्। सांध्यम्। ऋतुभ्यः ग्रैष्मम्। शैशिरम्। नक्ष्त्रेभ्यः तैषम्। पौषम्। सन्धिवेला। सन्ध्या। अमावास्या। त्रयोदशी। चतुर्दशी। पञ्चदशी। पौर्णमसी। प्रतिपद्। संवत्सरात् फलपर्वणोः सांवत्सरं फलम्। सांवत्सरं पर्व।
न्यासः
सन्धिवेलाद्यृतुनक्षत्रेभ्योऽण्। , ४।३।१६

"ठञोऽपवाद-ट इति। "कालाट्ठञ्" ४।३।११ इति प्राप्तस्य। अथाण्ग्रहणं किमर्थम्, यथाविहितमेवोच्येत,तेनैवमुच्यमाने न प्राप्नोतीत्याशङ्कनीयम्, यदि ठञ् स्यात् पुनर्वचनमनर्थकं स्यात्, तस्माद्वचनप्रामाण्याद्यो विहितो न स प्राप्नोति, ठञ्प्रत्ययेन बाधितत्वात् स एव भविष्यति, स वाच्य? इत्यत आह-- "अण्ग्रहणम्" इत्यादि। सन्धिवेलादिषु पौर्णमासीशब्दो वृद्धः पठ()ते। स्वातिरिति नक्षत्रशब्दो वृद्धोऽस्ति। तत्र यद्यण्ग्रहणं न क्रियेत, ताभ्यां परत्वाट्ठञा छे बाधिते पुनर्वचनाच्छ एव स्यात्। तस्मात् तनपि बाधित्वा वृद्धादणेव यथा स्यादित्येवमर्थं पुनरण्ग्रहणम्। "तैषम्, पौषम्" इति। तिष्यपुष्पशब्दाभ्यां "नक्षत्रेण युक्तः कालः" ४।२।३ इत्यण्, तस्याणो "लुबविशेषे" ४।२।४ इति लुप्, ततोऽनेनाण्, तिष्यपुष्ययोर्नक्षत्राणि" (वा।८०८) इति यलोपः। "संवत्सरात्फलपर्वणोः"इति। संवत्सरशब्दादण्भवति फले पर्वणि चाभिधेये। सांवत्सरं फलम्, सावंत्सरं पर्व वा। सांवत्सरिकमन्यत्॥
बाल-मनोरमा
सन्धिवेलाद्युतुनक्षत्रेभ्योऽण् १३६७, ४।३।१६

सन्धिवेलां। कालवृत्तिभ्य इति। "कालाट्ठ]ञित्यतस्तदनुवृत्तेरिति भावः। ठञोऽपवादः। तैषमिति। तिष्ये भवादीत्यर्थः। "तिष्टपुष्ययोर्नक्षत्राऽणी"ति। यलोपः। तिष्ये जात इत्यर्थे "श्रविष्ठाफल्गुनी"ति लुग्वक्ष्यते। सन्धिवेलादिगणं पठति--सन्धिवेलेत्यादि। संवत्सरात्फलपर्वणोरिति। गणसूत्रमिदम्।

तत्त्व-बोधिनी
सन्धिवेलाद्यृतुनक्षत्रेभ्योऽण् १०७६, ४।३।१६

सन्धिवेला। अण्ग्रहणं तु छबाधनार्थम्। अन्यथा "सन्धिवेलादिभ्यो यथाविहितं प्रत्ययाः स्युः" इत्यक्ते पौर्णमासीशब्दात् "वृद्धाच्छः"स्यात्। वचनं तु ठञो बाधनाय स्यादिति भावः। तैषमिति। तिष्याद्भवादावण्। जातार्थे तु "श्रविष्ठाफाल्गुनी"ति लुक्स्यात्। "सूर्यतिष्ये"त्यत्र "तिष्यपुष्ययोर्नक्षत्राऽणि"इति वचनाद्यलोपः।