पूर्वम्: ४।३।१५८
अनन्तरम्: ४।३।१६०
 
सूत्रम्
द्रोश्च॥ ४।३।१५९
काशिका-वृत्तिः
द्रोश् च ४।३।१६१

द्रुशब्दाद् यत् प्रत्ययो भवति विकारावयवयोरर्थयोः। ओरञो ऽपवादः। द्रव्यम्।
न्यासः
द्रोश्च। , ४।३।१५९

बाल-मनोरमा
द्रोश्च १५१८, ४।३।१५९

द्रोश्च। "य"दिति शेषः। "एकाचो नित्य"मिति मयटः "ओरञि"त्यस्य चापवादः।

तत्त्व-बोधिनी
द्रोश्च ११८१, ४।३।१५९

द्रोश्च। "ओरञः", "एकाचो नित्य"मिति मयटश्चापवादोऽयम्। द्रव्यमिति। "ओर्गुणः", "वान्तो यि प्रत्यये"। "द्रव्यगुणकर्मे"त्यादिषु प्रयुज्यमानद्रव्यशब्दस्तु गुणैर्द्रूयते आश्रीयते इति द्रुधातोः "अचो य"दिति यत्प्रत्ययान्तः।