पूर्वम्: ४।३।१५९
अनन्तरम्: ४।३।१६१
 
सूत्रम्
माने वयः॥ ४।३।१६०
काशिका-वृत्तिः
माने वयः ४।३।१६२

द्रशब्दान् माने विकारविशेषे वयः प्रत्ययो भवति। यतो ऽपवादः। द्रुवयम्।
न्यासः
माने वयः। , ४।३।१६०

बाल-मनोरमा
माने वयः १५१९, ४।३।१६०

माने वयः। द्रोरित्येवेति। माने विकारे गम्ये द्रुशब्दाद्वयप्रत्ययः स्यादित्यर्थः।

तत्त्व-बोधिनी
माने वयः ११८२, ४।३।१६०

माने वयः। यतोऽपवादः। द्रुवयमिति। द्रोर्विकारभूतं प्रस्थादिपरिमाणमित्यर्थः।