पूर्वम्: ४।३।१६०
अनन्तरम्: ४।३।१६२
 
सूत्रम्
फले लुक्॥ ४।३।१६१
काशिका-वृत्तिः
फले लुक् ४।३।१६३

विकारावयवयोरुत्पन्नस्य फले तद्विषये विवक्षिते लुग् भवति। आमलक्याः फलम् आमलकम्। कुवलम्। वदरम्। फलितस्य वृक्षास्य फलम् अवयवो भवति विकारश्च, पल्लवितस्य इव पल्लवः।
बाल-मनोरमा
फले लुक् १५२०, ४।३।१६१

फले लुक्। आमलकमिति। फलितस्य वृक्षस्य फलमवयवो विकारश्च। तस्मिन्मयटो लुकि "लुक्ताद्धितलुकी"ति ङीषो लुक्।

तत्त्व-बोधिनी
फले लुक् ११८३, ४।३।१६१

फले लुक्। विकारावयवेति। फलितस्य वृक्षस्य फलमवयवो, विकारश्च। तेनान्यतरस्मिन्प्रत्ययः। आमलकमिति। मयटो लुक्। "लुक्तद्धितलुकि"ति ङीषो लुक्। न चात्र स्थानिवद्भावने "यस्येति च"इति लोपः शङ्ख्यः, "लुका लुप्तं न स्थानिव"दित्यभ्युपदमात्। अत एव पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुरित्यत्र "अध्यर्धपूर्वे"ति ठञो लुकि कृते "लुक्तद्धिते"तिङीषो लुका लुप्तत्वेन स्थानिवत्त्वाऽभावादुकारस्य यणादेशो न भवति।