पूर्वम्: ४।३।१६५
अनन्तरम्: ४।४।१
 
सूत्रम्
कंसीयपरशव्ययोर्यञञौ लुक् च॥ ४।३।१६६
काशिका-वृत्तिः
कंसीयपरशव्ययोर् यञञौ लुक् च ४।३।१६८

प्राक् क्रीताच् छः ५।१।१, कंसीयः। उगवादिभ्यो यत् ५।१।२, परशव्यः। कंसीयपरशव्यशब्दाभ्यां यथासङ्ख्यं यञञौ प्रत्ययौ भवतः तस्य विकारः इत्येतस्मिन् विषये, तत्संनियोगेन च कंसीयपरशव्ययोः लुग् भवति। कंसीयस्य विकारः कांस्यः। परशव्यस्य विकारः पारशवः। प्रातिपदिकाधिकाराद् धातुप्रत्ययस्य न लुग् भवति। परशव्यशब्दादनुदात्ताऽदित्वादेव अञि सिद्धे लुगर्थं वचनम्। ननु च यस्य इति च ६।४।१४८ इति लोपे कृते हलस् तद्धितस्य ६।४।१५० इति यलोपो भविष्यति? ना एअदस्ति, ईति इति तत्र वर्तते। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य तृतीयः पादःचतुर्थाध्यायस्य चतुर्थः पादः।
न्यासः
कंसीयपरशव्ययोर्यञञौ लुक्च। , ४।३।१६६

"कंसीयः"इति। उणादौ कंसशब्दः सप्रत्ययान्तो व्युत्पादितः। पशुशब्दोऽपि "पृथिविव्या {धृषिह्मषभ्यः--द।उ।} धृषिभ्यः कुःरक" (द।उ।१।१०८) इत्यनुवत्र्तमाने "आङ्परयोः खनिशृभ्यां {डिच्च--द।उ।, तिच्च इति प्रांउंयासपाठः} णिच्च" (द।उ।१।११८) इति कुप्रत्ययान्तः। तदनयोरपि धातुप्रत्यययोर्लुक्कस्मान्न भवति? इत्याह-- "प्रातिपदिकाधिकारात्" इत्यादि। प्रातिपदिकादिति वत्र्तते, तेन प्रातिपदिकेभ्यो यो विहितस्तस्य लुग्भवति। ने चेमौ प्रातिपदिकाद्विहितौ, किं तर्हि? धातोः, अतोऽनयोर्लुग्न प्रवत्र्तते। "अनुदात्तत्वादेव" इति। परशव्यशब्दो हि "तित्स्वरितम्" ६।१।१७९ इत्यन्तस्वरितः। "तेनानुदात्तादिः" इति। "ईतीति तत्र वत्र्तते" इति। "यस्यते च" ६।४।१४८ इत्यतः॥ इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायां चतुर्थाध्याये तृतीयः पादः ------------------ अथ चतुर्थोऽध्यायः चतुर्थः पादः
बाल-मनोरमा
कंसीयपरशब्दयोर्यञञौ लुक् च १६०५, ४।३।१६६

कंसीयपरशब्द। अत्र यञञोर्न लुक्, विधिवैयथ्र्यात्। नापि प्रकृत्योः, प्रत्ययाऽदर्शनस्यैव लुक्त्वात्। अतः परिशेषात्प्रकृत्येकदेशयोश्छयतोरिति लभ्यते। तदाह--छयतोरिति। कंसीयमिति। कंसो नाम धातुर्लोहविशेषः। "तस्मै हित"मिति छः। कांस्यमिति। कंसीयशब्दाद्यञि छस्य लुकि आदिवृद्धौ "यस्येति चे"त्यकारलोपः। परशब्दमिति। "तस्मै हित"मित्यधिकारे "उगवादिभ्यो य"दिति ओर्गुणे "वान्तो यी"त्यवादेशः। पारशव इति। परशब्दशब्दादञि यतो लुकि ओर्गुणे पारशवः। "हलस्तद्धितस्ये"ति तु न, ईतीत्यनुवृत्तेः। अनापत्यत्वात् "आपत्यस्य चे"त्यपि लोपो न प्रसज्यत इति भावः।

*****इति बालमनोरमायाम् प्राग्दीव्यतीयाः।*****

अथ प्राग्घितीय प्रकरणम्।

-------------------

तत्त्व-बोधिनी
कंसीयपरशब्ययोर्यञञौ लुक् च १२१, ४।३।१६६

कंसीयमिति। "प्राक्क्रीताच्छः"इत्यधिकारे "तस्मै हित"मिति छः। तस्यै छस्यापवादतया "उगवादिभ्यो यत्"---परशव्यं दारु। परशव्यशब्दस्याऽनुदात्तादित्वादञि[#ः] सिद्धे तत्संनियोगेन यतो लुगर्थं वचनम्। नच "यस्येति"यलोपे कृते "हलस्तद्धितस्ये"ति यलोपेन सिद्धमिष्टमिति भ्रमितव्यम्, ईतीत्यनुवृत्तेः।

इति तत्त्वबोधिन्याम् विकारार्थाः प्राग्दीव्यतीयाश्च।

अथ विसर्गसन्धिः॥

--------------

विष्णुस्त्रातेति। प्रातिपदिकात् "स्वैजसमौ"डिति सुप्रत्यये तस्य रुत्वे "खरवसानयो"रिति विसर्गे च कृते "विसर्जनीयस्य स" इति सः। अस्य च रुत्वं नाशङ्क्यम्, रुत्वं प्रति विसर्जनीयसत्वस्याऽसिद्धत्वात्।