पूर्वम्: ४।३।१
अनन्तरम्: ४।३।३
 
सूत्रम्
तस्मिन् नणि च युष्माकास्माकौ॥ ४।३।२
काशिका-वृत्तिः
तस्मिन्नणि च युष्माकास्माकौ ४।३।२

तस्मिनिति साक्षाद् विहितः खञ् निर्दिष्यते, न चकारानुकृष्टः छः। तस्मिन् खञि अणि च युष्मदस्मदोर् यथासङ्ख्यं युष्माक अस्माक इत्येतावादेशौ भवतः। निमित्तयोरादेशौ प्रति यथासङ्खं कस्मान् न भवति? योगविभागः करिष्यते, तस्मिन् खञि युष्मदस्मदोः युष्माकास्माकौ भवतः, ततो ऽणि च इति। यौष्माकीणः। आस्माकीनः। यौष्माकः। आस्माकः। तस्मिनणि च इति किम्? युष्मदीयः। अस्मदीयः।
लघु-सिद्धान्त-कौमुदी
तस्मिन्नणि च युष्माकास्माकौ १०८३, ४।३।२

युष्मदस्मदोरेतावादेशौ स्तः खञ्यणि च। यौष्माकीणः। आस्माकीनः। यौष्माकः। आस्माकः॥
न्यासः
तस्मिन्नणि च युष्माकास्माकौ। , ४।३।२

"तस्मिन्निति साक्षद्विहितः खञ् निर्दिश्यते" इति। तस्मिन्नित्युक्ते प्रागेव तत्रैव प्रतीत्युत्पत्तेः। तत्र पुनः कारणं साक्षाद्विहित्वम्ानन्तर्याच्च खञः, तस्यैव युक्तः। ननु च पूर्वसूत्रे?ञ्चेति चकारेण च्छोऽनुकृष्यते,वाचकदेशश्च वाच्य इति खञश्छ एवानन्तरो भवति। स्यादनन्तरो यदि चकारस्तस्य वाचकः स्यात्, न चासौ तस्य वाचकः। स हि समीपवर्तिनः पदार्थान्तरस्य सहायतामात्रमाचष्टे। खञः सहायतामाख्याय निवृत्ते चकारे सा सहायता प्रकरणाच्छेनैव विज्ञायते। तस्माच्चकारश्छस्य वाचको न भवतीति नासौ तादृशः। तत्कृतयोस्तस्यानन्तर्य "निमित्तयोः" इत्यादि। द्वे हि निमित्ते-- खञणौ, निमित्तनावपि द्वावेवादेशौ, ततः समानत्वद्यथासंख्येनात्र भवितव्यमिति मन्यमानस् प्रश्नः। "योगविभागः इत्यादि" परिहारः। "युष्मदीयः, अस्मदीयः" इति। यदि "तस्मिन्नणि च" इति नोच्येत तो यथा पूर्वसूत्रविहितयोः खञणोरिमावादेशौ भवतस्तथा च्छेऽपि स्याताम्। त()स्मस्तु सति न भवतः॥
बाल-मनोरमा
तस्मिन्नणि च युष्माकास्माकौ १३५१, ४।३।२

अथ खञि अणि च विशेषमाह--तस्मिन्नणि च। पूर्वसूत्रे निर्दिष्टः खञ् तच्छब्देन परामृश्यते। तदाह--खञि अणि चेति। अत्र स्थानिनोरादेशयोश्च यथासङ्ख्यं, न तु परनिमित्तयोः, तस्मिन्नणीति व्यस्तनिर्देशात्। यौष्माकीण इति। युवयोर्युष्माकं वा अयमिति विग्रहः। खञ्, ईनादेशः, युष्माकादेशः आदिवृद्धिः, णत्वम्। आस्माकीन इति। आवयोरस्माकं वा अयमिति विग्रहः। अणि उदाहरति--यौष्माकः आस्माक इति।

तत्त्व-बोधिनी
तस्मिन्नणि च युष्माकास्माकौ १०६७, ४।३।२

तस्मिन्नणि च। तस्मिन्निति साक्षाद्विहितः खञ्निर्दिश्यते, नतु चानुकष्टः। निमित्तयोरादेशौ प्रति यखासङ्ख्यं तु न भवति, "खञणो"रिति वक्तव्ये पृथग्विभक्तिनिर्देशसामथ्र्यात्। स्थान्यादेशयोस्तु इष्यत एव तत्।