पूर्वम्: ४।३।२०
अनन्तरम्: ४।३।२२
 
सूत्रम्
हेमन्ताच्च॥ ४।३।२१
काशिका-वृत्तिः
हेमन्ताच् च ४।३।२१

छन्दसि इत्येव। हेमन्तशब्दाच् छन्दसि विषये ठज् प्रत्ययो भवति शैषिकः। ऋत्वणो ऽपवादः। सहश्च सहस्यश्च हैमन्तिकावृतू। योगविभागः उत्तरार्थः।
न्यासः
हेमन्ताच्च। , ४।३।२१

"योगविभाग उत्तरार्थः" इति। "सर्वत्राण् च तर्लोपश्च" ४।३।२२ इति वक्ष्यति, स हेमन्तशब्दस्यैव यथा स्यात्, वसन्तस्य मा भूत्। यदि "हेमन्तवसनताभ्याम्" इत्येकयोगः क्रियेत, ततो वसन्तस्यापि स्यात्; तस्य ह्रुत्तरत्रानुवृत्तेः॥