पूर्वम्: ४।३।२१
अनन्तरम्: ४।३।२३
 
सूत्रम्
सर्वत्राण् च तलोपश्च॥ ४।३।२२
काशिका-वृत्तिः
सर्वत्र अण् च तलोपश् च ४।३।२२

हेमन्तशब्दादण् प्रत्ययो भवति, तत्संनियोगेन च अस्य तकारलोपः। हैमनं वासः। हेइमनम् उपलेपनम्। सर्वत्रग्रहणं छन्दो ऽधिकारनिवृत्त्यर्थम्। छन्दसि भाषायां च सर्वत्र एतद् भवति। ननु च छन्दसि इति न अनुवर्तिष्यते? सैवाननुवृत्तिः शब्देन अख्यायते प्रत्यत्नाधिक्येन पूर्वसूत्रे ऽपि सम्बन्धार्थम्। हैमन्तिकम् इति भाषायाम् अपि ठञं स्मरन्ति। अथ अण् च इति चकारः किम् अर्थः? अण्, यथाप्राप्तं च ऋत्वणिति। कः पुनरनयोर् विशेषः? ऋत्वणि हि तकारलोपो न अस्ति हैमन्ति पङ्क्ती पङ्क्तिः इति। तदेवं त्रीणि रूपाणि भवन्ति, हैमन्तिकम्, हैमन्तम्, हैमनम् इति।
न्यासः
सर्वत्राण् च तलोपश्च। , ४।३।२२

छन्दसि पूर्वेण ठञि प्राप्ते भाषायामपि ऋत्वणि चैतदुच्यते। "सर्वत्रग्रहणम्" इत्यादिनि सर्वत्रग्रहणस्य प्रयोजनमाचष्टे। "छन्दसि भाषायाञ्च" इत्यादिना छन्दोऽधिकारनिवृत्तेः फलं दर्शयति। "ननु च" इत्यादि। अस्वरित्वादेव च्छन्दसीति नानुवर्तिष्यते, ततो नार्थश्छनदोऽधिकारनिवृत्त्यर्थेन सर्वत्रग्रहणेनेत्यभिप्रायः। "सैव" इत्यादिना यासावस्वरितत्वादननुवृत्तिः सैव सर्वत्रेत्यनेन शब्देनाख्यायते। किमर्थमित्याह-- "प्रयत्नादिक्येन" इत्यादि। प्रत्यत्नाधिक्यमेतदेव शब्देनाख्यातम्। तेन हेतुना पूर्वसूत्रेऽपि सर्वत्रशब्दस्य सम्बन्धो यथा स्यादित्येवमर्थः शब्देनाख्यायते। कस्मात् पुनः पूर्वसूत्रेऽपि सर्वत्रग्रहणस्य सम्बन्ध इष्यते? इत्याह-- "हैमन्तिकमिति हि" इत्यादि। हिशब्दो हेतौ। आचार्या हि हैमन्तिकमिति भाषायां ठञं स्मसन्ति। स चैवं भाषायामपि सिद्ध्यति, यदि पूर्वसूत्रेऽपि सर्वत्र ग्रहणस्य सम्बन्धो भवति। तत्र हि सति पूर्वसूत्रस्यायमर्थो भवति-- हेमन्ताच्च सर्वत्र च्छन्दसि भाषायामपि ठञ् भवतीति। "कः पुनरनयोरणो विशेषः"इति। न कश्चिदिति भावः। "ऋत्वणि हि" इत्यादिना विशेषं दर्शयति। "हैमन्ती" इति। "टिड्ढाणञ्" ४।१।१५ इति ङीप्। "तदेवम्" इत्यादि। यत एव पूर्वसूत्रेण ठञ् भवत्यनेनाण् तलोपसहितः,तेन त्रीणि रूपाणि भवन्ति॥
बाल-मनोरमा
सर्वत्राऽण् च तलोपश्च १३७०, ४।३।२२

सर्वत्राऽण्च। छन्दसीत्यनुवृत्तिनिवृत्त्यर्थं सर्वत्रग्रहणम्। लोके वेदे चेत्यर्थः। "हेमन्ताच्चे"ति पूर्वसूत्राद्धेमन्तादित्यनुवर्तते। तदाह--हेमन्तादित्यादिना। ननु "सर्वत्राऽण् तलोपश्चे"त्येव सिद्धे प्रथमचकारो व्यर्थ इत्यत आह--चकारादिति। हैमनमिति। "हेमन्ते"त्यत्र तकारात्प्राग् नकारस्यानुस्वारपरसवर्णौ स्थितौ। तत्र तकाराकारसमुदायस्य लोप इति पक्षे "अ"निति प्रकृतिभावान्न टिलोपः। तकारस्यैव लोप इति पक्षे तु अकारस्य "यस्येति चे"ति लोपे तस्य आभीयत्वेनासिद्धत्वात्स्थानिवत्त्वाद्वा न टिलोपः। हैमन्तमिति। ऋत्वणि रूपम्। अत्र न तलोपः, तस्य एतत्सूत्रप्रतिपदोक्ताऽणा संनियोगशिष्टत्वादिति भावः।

तत्त्व-बोधिनी
सर्वत्राऽण् च तलोपश्च १०७८, ४।३।२२

सर्वत्राण्च। हेमन्तादिति। एतच्च "हेमन्ताच्चे"त्यतोऽनुवृत्तमिति भावः। हैमनमिति। अकारविशिष्टस्य तशब्दस्य लोपे "अन्" इति प्रकृतिभावात् "नस्तद्धिते"इति टिलोपो नेति बोध्यम्। हैमन्तमिति। ऋत्वणि तकारलोपो न भवति, तस्य "सर्वत्रा"णिति प्रतिपदोक्तेन अणा सन्नियोगशिष्टत्वात्। एतच्च प्रत्याख्यातं भाष्ये। तथाहि--हेमन्तपर्यायो हेमन्शब्दोऽप्यस्ति, "हेमन्नागनीगन्ति कर्णौ" इत्यादि प्रयोगात्, ततश्च हेमन्--हेमन्त शब्दाभ्यामृत्वणि हैमनं हैमन्तमिति रूपद्वयं सिद्धम्। छन्दसि तु "हेमन्ताच्चे"ति ठञा "हैमन्तिक"मिति तृतीयमपि रूपं सिध्यति। न च विशेषविहितेन ठञा अणो बाधः शङ्क्यः। छन्दसि सर्वविधीनां वैकल्पिकत्वात्। वृत्तिकृता तु "हेमन्ताच्चे"ति सूत्रे सर्वत्रग्रहणमपकृष्य लोकेऽपि हैमन्तिकमिति स्वीकृतम्।