पूर्वम्: ४।३।२२
अनन्तरम्: ४।३।२४
 
सूत्रम्
सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च॥ ४।३।२३
काशिका-वृत्तिः
सायंचिरंप्राह्णेप्रगे ऽव्ययेभ्यष् ट्युट्युलौ तुट् च ४।३।२३

कालातित्येव। सायं चिरं प्राह्णे प्रगे इत्येतेभ्यः अव्ययेभ्यश्च कालवाचिभ्यः ट्युट्युलौ प्रत्ययौ भवतः, तयोश्च अदिष्टयोः तुडागमो भवति। सायन्तनम्। चिरन्तनम्। प्राह्णेतनम्। प्रगेतनम्। अव्ययेभ्यः दोषातनम्। दिवातनम्। सायम् इति मकारान्तं पदम् अव्ययम्, ततो ऽव्ययादेव सिद्धः प्रत्ययः। यस्तु स्यतेरन्तकर्मणो घञि सायशब्दस् तस्य इदं मकारान्तत्वं प्रत्ययसन्नियोगेन निपात्यते। दिवसावसानं सायः। चिरशब्दस्य अपि मकारान्तत्वं निपात्यते। प्राह्णे, प्रगे इत्येकारान्तत्वम्। चिरपरुत्परारिभ्यस्त्नो वक्तव्यः। चिरत्नम्। परुत्नम्। परारित्नम्। प्रगस्य छन्दसि गलोपश्च। प्रत्नम्। अग्रपश्चाड्डिमच्। अग्रिमम्। पश्चिमम्। अन्ताच् च इति वक्तव्यम्। अन्तिमम्।
लघु-सिद्धान्त-कौमुदी
सायञ्चिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च १०८९, ४।३।२३

सायमित्यादिभ्यश्चतुर्भ्योऽव्ययेभ्यश्च कालवाचिभ्यष्ट्युट्युलौ स्तस्तयोस्तुट् च। सायन्तनम्। चिरन्तनम्। प्राह्णे प्रगे अनयोरेदन्तत्वं निपात्यते। प्राह्णेतनम्। प्रगेतनम्। दोषातनम्॥
न्यासः
सायञ्चिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट�उट�उलौ तुट् च। , ४।३।२३

"कालाट्ठञ्" ४।३।११ इति ठञि प्राप्ते सायमादिभ्यः ट()उट()उलौ विधीयेते, तयोश्च तुडागमः। ठञपवादत्वाच्च् ट()उट()उलोः। ठञैव च्छस्य बाधित्वादेताभ्यां पुनश्छस्य सम्प्रधारणैव नास्ति। तेन वृद्धादपि ट()उट()उलावेव भवतः-- प्राक्तनमिति। "तयोश्च" इत्यादि। यद्यनादिष्टयोस्तुट् स्यात् तदा युरूपौ प्रत्ययौ न भवत इत्यनादेशो न स्यात्। तस्मादादिष्टयोस्तयोः कृतादेशयोस्तुडागमः। एतच्च "घकालतनेषु काल नाम्नः" ६।३।१६ इति निर्देशाल्लभ्यते। न ह्रनादिष्टयोस्तुड्()विधानेन तनशब्द उपपद्यते। अथ प्रत्ययोष्टित्करणं किमर्थम्, न तुट एव टित्त्वेन प्रत्ययोरपि टित्त्वं विज्ञास्यत इति, यतस्तद्()ग्रहणेन ग्रहणादागमानाम्? नैतदस्ति; युक्तं यत् प्रत्ययधर्मा आगमे भवन्ति तस्य प्रत्ययभक्तत्वात्, नत्वागयधर्मा प्रत्यये। तस्माट्टित्कार्यार्थं प्रत्ययोरपि टित्त्वमासज्यते। "स्यतेरन्तकर्मणः" इति। "षोऽन्तकर्मणि" (धा।पा।११४७) इत्यस्य। "प्राह्णे प्रगे इत्येकारान्तम्" इति। निपात्यत इति सम्बन्धः। ननु च "घकालतनेषु कालनाम्नः" ६।३।१६ इति सप्तम्या अलुकैव सिद्धम्, तदपार्थकं निपातनम्? यत्र तर्हि सप्तम्यर्थो नास्ति तदर्थं निपानम् --- ग्राह्णः स#ओढोऽस्य प्राह्णेतनः, प्रगः सोढोऽस्य प्रगेतन इति। अत्र हि "तदस्य सोढम्" ४।३।५२ इति प्रथमासमर्थात्प्रत्ययविधानात्सप्तम्यर्थो नास्ति। तदभावत्सप्तम्यपि नास्त्येव। "चिरपरुत्परारिभ्यस्त्नो वक्तव्यः" इति। व्याख्येय इत्यर्थः। व्याख्यानं तु "तद्धिताः" ४।१।७६ इत्यत्रैव कृतम्। एवमुत्तरत्रापि वेदितव्यम्। चिरशब्दस्य सूत्रे चोपादानाट्ट()उलावपि भवतः। "प्रगस्य च्छन्दसि गलोपश्च" इति।वक्तव्य इति सम्बन्धः वक्तव्यशब्दस्य स एवार्थः। व्याख्यानात् त्विहापि "प्रत्नपूर्ववि()ओमात् थाल् च्छन्दसि" ५।३।१११ इतिनिपातनमाश्रित्य कत्र्तव्यम्। "अन्ताच्चेति वक्तव्यम्" (इति)। अन्तशब्दाड्()डिमज्भवतीत्येतदर्तरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु कृतमेव। डिमचो डित्करणं पश्चादित्यस्य टिलोपार्थम्। ननु च "अव्ययानां भमात्रे टिलोपो वक्तव्यः" (वा८४२) इत्यनेनैव सिद्धम्? न सिध्यति; अनित्यत्वात् तस्य। यथा आरातीय इत्यत्र न भवति, तथेहापि न भवतीति कस्यचिद्()भ्रानति स्यात्, अतस्तन्निरासार्थं डित्करणम्॥