पूर्वम्: ४।३।२३
अनन्तरम्: ४।३।२५
 
सूत्रम्
विभाषा पूर्वाह्णापराह्णाभ्याम्॥ ४।३।२४
काशिका-वृत्तिः
विभाषा पूर्वाह्णापराह्णाभ्याम् ४।३।२४

पूर्वाह्णापराह्णाशब्दाभ्यां विभाषा ट्युट्युलौ प्रत्ययौ भवतः, तुट् च तयोरागमः। कालाट् ठञ् ४।३।११ इति ठञि प्राप्ते वचनं, पक्षे सो ऽपि भवति। पूर्वाह्णेतनम्। अपराह्णेतनम्। पौर्वाह्णिकम्। आपराह्णिकम्। घकालतनेषु कालनाम्नः ६।३।१६ इति सप्तम्या अलुक्। यदा तु न सप्तमी समर्थविभक्तिः पूर्वाह्णः सोढः अस्य इति तदा पूर्वाह्णतनः इति भवितव्यम्।
न्यासः
विभाषा पूर्वाह्णापराह्णाभ्याम्। , ४।३।२४

"{पूर्वाह्णेतनम्--काशिका} पूर्वाह्णेतनः" इति। अह्नः पूर्वो भाग इति पूर्वादिसूत्रेणै २।२।१ कदेशिसमासः। "राजहःसखिभ्यष्टच्" ५।४।९१ इति टच् समासान्तः, "अह्नोऽह्न एतेभ्यः" ५।४।८८ इत्यह्नादेशः,"अह्नोऽदन्तात्" ८।४।७ इति णत्वम्। यदाऽपत्यम्यन्तात् प्रत्ययस्तदा पूर्वाह्णतन इति भवितव्यमिति; सप्तम्यभावात्। सप्तम्यभावस्तु प्रथमासमर्थात् तद्धितोत्पत्तेः॥
बाल-मनोरमा
विभाषा पूर्वाह्णापराह्णाभ्याम् १३७२, ४।३।२४

विभाषा पूर्वाह्णा। पक्षे ठञिति। तथा सति न तुट्, तस्य ठ्युठ्युल्भ्यां संनियोगशिष्टत्वादिति भावः। तदेवं "राष्ट्रावारे"त्यारभ्य एतदन्तैः सूत्रैः शाष्ट्रादिप्रकृतिविशेषेभ्यो घादयः प्रत्ययविशेषा अनुक्रान्ताः।