पूर्वम्: ४।३।२८
अनन्तरम्: ४।३।३०
 
सूत्रम्
पथः पन्थ च॥ ४।३।२९
काशिका-वृत्तिः
पथः पन्थ च ४।३।२९

पथिशब्दाद् वुन् प्रत्ययो भवति, तत्र जातः इत्येतस्मिन् विषये ऽणो ऽपवादः। प्रत्यय। संनियोगेन च पथः पन्थ इत्ययम् आदेशः भवति। पथि जातः पन्थकः।
न्यासः
पथः पन्थ च। , ४।३।२९

"एकदेशाविकृतस्य" इत्यादि। "अमावस्यदन्यतरस्याम्" ३।१।१२२ इत्यत्र ण्यत्यवृद्धिरेव निपात्यते। अवृद्धिस्तु वृद्धेरेकादेशभूततया विकारो भवतीत्येकदेशविवृतममावस्याशब्दस्योपपद्यते। ये तु सन्धिवेलादिषु ह्यस्वोपधमधीयते, तेषां वृद्ध्युपधस्य ग्रहणं न प्राप्नोति, न हि विकृतिः प्रकृतिं गृह्णाति। तस्माद्दीर्घ एव पाठो युक्तः॥।
तत्त्व-बोधिनी
अ च १०८७, ४।३।२९

अ च। अमावास्याशब्दादकारप्रत्ययः स्यात्। अयमपि पूर्ववदुभाभ्यां बोध्यः। अमावास्य इति। ह्यस्वमध्यात्तु अमावस्यः।