सिन्ध्वपकरशब्दाभ्यां यथासङ्ख्यम् अणञौ प्रत्ययौ भवतः तत्र जातः
४।३।२५ इत् येतस्मिन् विषये। पूर्वेण कनि प्राप्ते वचनम्। सैन्धवः। आपकरः।
यथासंख्यार्थो योगविभागः। यदि "सिन्ध्वपकराभ्याञ्च कन्नणञः" इत्येकयोगः क्रियेत,ततो वैषम्यादेकैकस्याः प्रकृतेः प्रत्ययास्त्रयः स्युः॥