पूर्वम्: ४।३।३७
अनन्तरम्: ४।३।३९
 
सूत्रम्
कृतलब्धक्रीतकुशलाः॥ ४।३।३८
काशिका-वृत्तिः
कृतलब्धक्रीतकुशलाः ४।३।३८

तत्र इत्येव। सप्तमीसमार्थात् कृतादिष्वर्थेषु यथाविहितं प्रत्ययः भवति। स्रुध्ने कृतो वा लब्धो वा क्रीतो वा कुशलो वा स्रौघनः। माथुरः। राष्ट्रियः। ननु च यद् यत्र कृतं जातम् अपि तत्र भवति, यच् च यत्र क्रीतं लब्धम् अपि तत्र एव भवति किमर्थं भेदेन उपादानं क्रियते, शब्दार्थस्य अभिन्नत्वात्? वस्तुमात्रेण क्रीतं लब्धं भवति, शब्दार्थस् तु भिद्यते एव।
न्यासः
कृतलब्धक्रीतकुशलाः। , ४।३।३८

"ननु च" इत्यादि। जन्मवद्वस्तु जातशब्दस्यार्थः, कृतस्यापि जन्मास्त्येव, तस्माद्यद्यत्र कृतं जातमपि तत्तत्र भवति। "यच्च क्रीतम्" इत्यादि। प्राप्तं लब्धमुच्यते। क्रीतं प्राप्तमपपि तद्भवत्येव, तस्मात् क्रीतं लब्धमपि भवति। "शब्दस्यार्थस्याभिन्नत्वात्" इति।स्वजन्मन्यनुभूतकर्त्तृभावो जातशब्दस्यार्थः। जातशब्दस्यैव विशेषोपलक्षितपरव्यापारो स्वजन्मनिष्पत्तौ कृतशब्दस्यार्थः। प्राप्तिसामान्यं लब्धशब्दस्यार्थः। प्राप्तिविशेषो यस्य मूलहेतुका प्राप्तिः। स क्रीतशब्दस्यार्थः। न च सामान्यविशेषयोरेकार्थता युक्ता। मा भूत्पर्यायप्रसङ्ग इति भिद्यते शब्दार्थः। "वस्तुमात्रेण" इति। क्रीतलब्धयोर्यदाधारभूतं व्सतुमात्रं तस्याभिन्नरूपत्वात्क्रीतं लब्धं भवति। मात्रग्रहणं शब्दार्थव्यवच्छेदार्थम्। अत एवाह-- "शब्दार्थस्तु भिद्यत एव" (इति)। न हि येन रूपेण क्रीतशब्देन तत्प्रत्याय्यते तेनैव लब्धशब्देन। एवं जातकृतशब्दयोर्वस्तुत्वेनाभिन्नत्वम्। शब्दार्थद्वारेण तु भिन्नार्थत्वमेव। अन्येनैव हि रूपेण जातशब्देन तद्वस्तु प्रत्याय्यते, अन्येन कृतशब्देन॥