पूर्वम्: ४।३।३
अनन्तरम्: ४।३।५
सूत्रम्
अर्धाद्यत्॥
४।३।४
काशिका-वृत्तिः
अर्धाद् यत्
४।३।४
अर्धशब्दात् यत् प्रत्ययो भवति शैषिकः। अणो ऽपवादः। अर्ध्यम्।
सपूर्वपदाट् ठञ् वक्तव्यः
। बालेयार्धिकम्। गौतमार्धिकम्।
न्यासः
अर्धाद्यत् ।
, ४।३।४
बाल-मनोरमा
अर्धाद्यत्
१३५४, ४।३।४
अर्धात्। अध्र्य इति। अर्धे जातादिरित्यर्थः। "सपूर्वपदाट्ठञ् वाच्यः" इति वार्तिकं भाष्ये स्थितम्। बालेयार्धिकः।