पूर्वम्: ४।३।४३
अनन्तरम्: ४।३।४५
 
सूत्रम्
उप्ते च॥ ४।३।४४
काशिका-वृत्तिः
उप्ते च ४।३।४४

तत्र इत्येव, कालातिति च। सप्तमीसमर्थात् कालवाचिनः प्रातिपदिकातुप्ते ऽर्थे यथाविहितं प्रत्ययो भवति। हेमन्ते उप्यन्ते हैमन्ता यवाः। ग्रैष्माः व्रीहयः। योगविभाग उत्तरार्थः।
न्यासः
उप्ते च। , ४।३।४४

"योगविभाग उत्तरार्थः" इति। उत्तरत्र वुञ् उप्त एव यथा स्यात्; साध्वादिषु मा भूत्॥
तत्त्व-बोधिनी
उप्ते च १०९९, ४।३।४४

उप्ते च। "काला"दित्येव। योगविङाग उत्तरार्थः। उप्यन्त इति। सूत्रे भूतकालोऽतन्त्रमिति भावः।