पूर्वम्: ४।३।४५
अनन्तरम्: ४।३।४७
 
सूत्रम्
ग्रीष्मवसन्तादन्यतरस्याम्॥ ४।३।४६
काशिका-वृत्तिः
ग्रीष्मवसन्तादन्यत्रस्याम् ४।३।४६

ग्रीष्मवसन्तशब्दाभ्याम् अन्यतरस्यां वुञ् प्रत्ययो भवति उप्ते ऽर्थे। ऋत्वणो ऽपवादः। ग्रीष्मं सस्यम्, ग्रैष्मकम्। वासन्तम्, वासन्तकम्।
न्यासः
ग्रीष्मवसन्तादन्यतरस्याम्। , ४।३।४६

बाल-मनोरमा
ग्रीष्मवसन्तादन्यतरस्याम् १४००, ४।३।४६

ग्राष्मवसन्तात्। ग्रीष्माद्वसन्ताच्च सप्तम्यन्तादुप्ते वुञ्वेत्यर्थः।