पूर्वम्: ४।३।४७
अनन्तरम्: ४।३।४९
 
सूत्रम्
कलाप्यश्वत्थयवबुसाद्वुन्॥ ४।३।४८
काशिका-वृत्तिः
कलाप्यश्वत्थयवबुसाद् वुन् ४।३।४८

कालातित्येव। कलापिनश्वत्थ यवबुस इत्येतेभ्यः कालवाचिभ्यः सप्तमीसमर्थेभ्यो देयम् ऋणम् इत्येतस्मिन्नर्थे वुन् प्रत्ययो भवति। कलाप्यादयः शब्दाः साहचर्यात् काले वर्तन्ते। यस्मिन् काले मयूशः कलापिनो भवन्ति स कलापी। यस्मिनश्वत्थाः फलन्ति सो ऽश्वत्थः। यस्मिन् यवबुसं सम्पद्यते स यवबुसशब्देन उच्यते। कलापिनि काले देयम् ऋणम् कलापकम्। अश्वत्थकम्। यवबुसकम्।
न्यासः
कलाप्य�आत्थयवबुसाद्?वुन्। , ४।३।४८

कथं पुनः कलापादयः शब्दाः काले वत्र्तन्ते, यावता मयूरादिषु तेषां वृत्तिः प्रसिद्धेत्यत आह-- "कालाप्यादयः शब्दाः" इत्यादि। एवमेव विषयं स्पष्टीकरोति-- "यस्मिन्काले" इत्यादि। अ()आत्थशब्दोऽत्र वृक्षविशेषे रूढः। तेन सर्व एव कालः सम्बध्यत इति तद्()द्वारेण कालविशेषो न संज्ञायते। तस्माद()आत्थफलसहचारिणि कालेऽ()आत्थशब्दो वत्र्तत इति दर्शयितुमाह-- "यस्मान्न()आत्थाः फलन्ति" इत्यादि। अ()आत्थशब्दो यद्यपि वृक्षे वत्र्तते, तथापि फले वत्र्तते एव॥
बाल-मनोरमा
कलाप्य�आत्थयवबुसाद्वुन् १४०२, ४।३।४८

कलाप्य()आत्थ। कलापिन्, अ()आत्थ, यवबुस--एभ्यः कालवाचिभ्यः सप्तम्यन्तेभ्यो देयमृणमित्यर्थे वुन्स्यादित्यर्थः। कलापकमिति। वुन्। अकादेशः। "नस्तद्धिते" इति टिलोपः। अ()आत्थ इति। विकारप्रत्ययस्य फले लुगिति भावः। अ()आत्थशब्दस्य प्लक्षादित्वे तु ततः "प्लक्षादिभ्योऽ"णिति फले अणो विधानसामथ्र्याल्लुगभावे अ()आत्थशब्दः फले लाक्षणिक इति भावः।

तत्त्व-बोधिनी
कलाप्य�आत्थयवबुसाद्वुन् ११०२, ४।३।४८

कलाप्य। अ()आत्थ इति। "फले लुक्"। इह पुंलिङ्गनिर्देशो यद्यप्ययुक्तस्तथापि फले अ()आत्थशब्द औपचारिक इत्याशयेन पुंलिङ्गप्रयोग इत्याहुः।