पूर्वम्: ४।३।४८
अनन्तरम्: ४।३।५०
 
सूत्रम्
ग्रीष्मावरसमाद्वुञ्॥ ४।३।४९
काशिका-वृत्तिः
ग्रीष्मावरसमाद् वुञ् ४।३।४९

ग्रीष्म अवरसमशब्दाभ्यां वुञ् प्रत्ययो भवति देयम् ऋणम् इत्येतस्मिन्नर्थे। अण्ठञोरपवादः। ग्रीष्मे देयम् ऋणं ग्रैष्मकम्। आवरसमकम्। प्रत्ययान्तरकरणं वृद्ध्यर्थम्। समाशब्दो वर्षपर्यायः।
न्यासः
ग्रीष्मावरसाद्?वुञ्। , ४।३।४९

"अण्ठञोरपवादः" इति। ग्रीष्मशब्दादृत्वणोरपवादः। अनरसमाशब्दात् कालाट्ठञः। अवरा चासौ समा चेत्यवरसमा॥
बाल-मनोरमा
ग्रीष्माऽवरसमाद्वुञढ् १४०३, ४।३।४९

ग्रीष्मावरसमाद्वुञ्। समाशब्दो वत्सरे नित्यस्त्रीलिङ्गबहुवचनः। ग्रीष्म अवरसमा अनयोः समाहारद्वन्द्वात्पञ्चमी। तत्र देयमृणमित्यर्थे आभ्यां वुञित्यर्थः। आवरसमकमिति। अवरासु समासु देयमृणमित्यर्थः। "तद्धितार्थ" इति समासः।