पूर्वम्: ४।३।५१
अनन्तरम्: ४।३।५३
 
सूत्रम्
तदस्य सोढम्॥ ४।३।५२
काशिका-वृत्तिः
तदस्य सोढम् ४।३।५२

कालातित्येव। तदिति प्रथमासमर्थात् कालवाचिनः प्रातिपदिकातस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत् प्रथमासमर्थं सोढं चेत् तद् भवति। सोढं जितमभ्यस् तम् इत्यर्थः। निशासहचरितम् अध्ययनं निशा, तत् सोढम् अस्य छात्रस्य नैशः, वैशिकः। प्रादोषः, प्रदोषिकः।
न्यासः
तदस्य सोढम्। , ४।३।५२

कालादिति वत्र्तते, न च कालो जीयते, तस्मान्निसासहचरितमिहाध्ययनं गौण्या वृत्त्या निशेत्येवमादिभिरभिधीयत इति विज्ञायते। अत एवाह-- "निशासहचरितमध्ययनं निशा" इति॥
बाल-मनोरमा
तदस्य सोढम् १४०६, ४।३।५२

तदस्य सोढम्। अस्मिन्नर्थे प्रथमान्ताद्यथाविहितं प्रत्ययाः स्युः। सोढमित्यस्य अभ्यस्तमित्यर्थः। नैशिकः नैश इति। "निशाप्रदोषाभ्यां चे"त्यण्ठञौ।