पूर्वम्: ४।३।५२
अनन्तरम्: ४।३।५४
 
प्रथमावृत्तिः

सूत्रम्॥ तत्र भवः॥ ४।३।५३

पदच्छेदः॥ तत्र ७३ भवः १।१ ७३ शेषे ? तद्धिताः ? ङ्याप्प्रातिपदिकात् ? प्रत्ययः ? परश्च ?

अर्थः॥

सप्तमी-समर्थात् ङ्याप्प्रातिपदिकात् भवः इत्येतस्मिन् अर्थे यथाविहितं प्रत्ययः भवति।

उदाहरणम्॥

स्रुघ्ने भवः=स्रौघ्नः, माथुरः, राष्ट्रियः, शालायां भवः=शालीयः, मालीयः
काशिका-वृत्तिः
तत्र भवः ४।३।५३

कालातिति निवृत्तम्। तत्र इति सप्तमीसमर्थात् ङ्याप्प्रातिपदिकात् भवः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। सत्ता भवत्यर्थो गृह्यते, न जन्म, तत्र जातः ४।३।२५ इति गतार्थत्वात्। स्रुघ्ने भवः स्रौघ्नः। माथुरः। राष्ट्रियः। पुनस् तत्रग्रहणं तदस्य इति निवृत्त्यर्थम्।
लघु-सिद्धान्त-कौमुदी
तत्र भवः १०९५, ४।३।५३

स्रुग्घ्ने भवः स्रौग्घ्नः। औत्सः। राष्ट्रियः॥
न्यासः
तत्र भवः। , ४।३।५३

बाल-मनोरमा
तत्र भवः १४०७, ४।३।५३

तत्र भवः। कालादिति निवृत्तम्। अस्मिन्नर्थे सप्तम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः। भवनं सत्ता, जननमुत्पत्तिरिति भेदः। रुआऔग्घ्न इति। #औत्सर्गिकोऽण्। राष्ट्रिय इति। "राष्ट्रावारे"ति घः।

तत्त्व-बोधिनी
तत्र भवः ११०५, ४।३।५३

तत्र भवः। "काला"दिति निवृत्तम्। कालसंबद्धस्य "तत्रे"त्यस्य निवृत्तये पुनस्तत्रग्रहणात्। न च पूर्वसूत्रस्थस्य "त"दित्यस्य ब्यावृत्तये तत्रग्रहणमस्त्विति वाच्यं, "तदस्य"इति सूत्रेस्येत उत्तरत्रापि सुपठत्वात्। यद्यपि भूधातुरुत्पत्तावपि वर्तते, तथापीह सत्तार्थ एव वर्तते, "त्र जातः"इति पृथग्ग्रहणादिति बोध्यम्।