पूर्वम्: ४।३।५४
अनन्तरम्: ४।३।५६
 
सूत्रम्
शरीरावयवाच्च॥ ४।३।५५
काशिका-वृत्तिः
शरीरावयवाच् च ४।३।५५

शरीरं प्राणिकायः शरीरावयववाचिनः प्रातिपदिकाद् यत् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। अणो ऽपवादः। दन्तेषु भवं दन्त्यम्। कर्ण्यम्। ओष्ठ्यम्।
लघु-सिद्धान्त-कौमुदी
शरीरावयवाच्च १०९७, ४।३।५५

दन्त्यम्। कण्ठ्यम्। (अध्यात्मादेष्ठञिष्यते) अध्यात्मं भवमाध्यात्मिकम्॥
न्यासः
शरीरावयवाच्च। , ४।३।५५

"अणोऽपवादः" इति। नाप्राप्ते तस्मिन्नस्यारम्भात्। यस्तु पादादिवृद्धस्ततः परत्वाद्यत् छं बाधते॥
बाल-मनोरमा
शरीरावयवाच्च १४०९, ४।३।५५

शरीरावयवाच्च। "भव इत्यर्थे सप्तम्यन्तेभ्य" इति शेषः। दन्त्यमिति। दन्ते भवमित्यर्थः। "यस्येति चे"त्यकारलोपः। एवं कण्ठ()म्।