पूर्वम्: ४।३।५५
अनन्तरम्: ४।३।५७
 
सूत्रम्
दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्॥ ४।३।५६
काशिका-वृत्तिः
दृतिकुक्षिकलशिवस्त्यस्त्यहेर् ढञ् ४।३।५६

दृत्यादिभ्यः प्रातिपदिकेभ्यः ढञ् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। दृतौ भवं दार्तेयम्। कौक्षेयम्। कालशेयम्। वास्तेयम्। आस्तेयम्। आहेयम् अजरं विषम्। अस्तिशब्दः प्रातिपदिकं, न तिङन्तः।
न्यासः
दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्। , ४।३।५६

दृतिकुक्षिभ्यां शरीरावयत्वाद्यति प्राप्ते;कुक्षिशब्दो धूमादष्वपि पठ()ते, तस्मात् "धूमादिभ्यश्च" ४।२।१२६ इति वुञि प्राप्ते; शेषेभ्यस्त्वणि ढञि विधीयते। अस्तिशब्दस्तिङन्तो मा विज्ञायीत्यत आह-- "अस्तिशब्दः" इत्यादि। "विभक्तिस्वरप्रतिरूपकाश्चेति निपाता भवन्ति" इति निपातसंज्ञकं तिङन्तसदृशं प्रातिपदिकमेतत्, न तिङन्तः। एतच्च तिङन्तेन समानार्थम्, यथा-- अस्तिक्षीरा ब्राआहृणीति। भिन्नार्थश्च यथा धने वत्र्तते, यथा--- अस्तिमानिति। धनवानिति गम्यते। तदिह विशेषस्यानभिधानादुभयस्यापि ग्रहणम्॥
बाल-मनोरमा
दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ् १४१२, ४।३।५६

दृतिकुक्षि। भव इत्यर्थे दृति, कुक्षि, कलशि, वस्ति, अस्ति, अहि--इत्येभ्यः। "सप्तम्यन्तेभ्यः" इति शेषः। दार्तेयमिति। दृतौ भवमित्यर्थः। ढञ्, एयः, आदिवृद्धिः, रपरत्वम्। दृतिश्चर्मभस्त्रिका। कौक्षेयमिति। दूमादित्वाद्वुञि प्राप्ते ठञ्। कलिशिर्घटः। "कलशिर्मथनपात्र"मित्यमरव्याख्यातारः। "वस्तिर्नाभेरधो द्वयो"रित्यमरः। तत्र भवो बास्तेयः। अस्तीति विभक्तिप्रतिरूपककमव्ययम् सत्तायां घने चेति न्यासकारो हरदत्तश्च। तत्र भव आस्तेयः। अहिः-सर्पः, तत्रभवः-आहेयः।

तत्त्व-बोधिनी
दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ् ११०८, ४।३।५६

दृतिकुक्षि। दृतिश्चर्मकारः, शरीरावयवविशेषश्च। कुक्षिशब्दो धूमादिस्ततो "धूमादिभ्यश्चे"ति वुञि प्राप्तेऽनेन ढञ्। कलशिः--मन्थापात्रं।"कलशिमुदधिगुर्वी बल्लवा लोडयन्ति"इति माघः। "बस्तिर्नाभेरधो द्वयोः"इत्यमरः। तत्र भवं वास्तेयम्। "अस्ती"ति तिङन्तप्रतिरूपको निपातः। स च तिङन्तेन समानार्थो भिन्नर्थश्च। आद्यो यथा---अस्तिक्षीरा गौः। द्वितीयो यथा,--अस्तिमान्। धनवानित्यर्थः। तदिहाऽविशेषादुभयोरपि ग्रहणमास्थेयमिति हरदत्तः। अहौ भवमाहेयम्।"त्रिष्वाहेयं विषास्थ्यादी"त्यमरः।