पूर्वम्: ४।३।५७
अनन्तरम्: ४।३।५९
 
सूत्रम्
गम्भीराञ्ञ्यः॥ ४।३।५८
काशिका-वृत्तिः
गम्भीराञ् ञ्यः ४।३।५८

गम्भीरशब्दाद् ञ्यः प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। अणो ऽपवादः। गम्भीरे भवं गाम्भीर्यम्। बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम्। बाह्यम्। दैव्यम्। पाञ्चजन्यम्।
न्यासः
गम्भीराञ्ञ्यः। , ४।३।५८

"बहिर्देव" इत्यादि। बहुर्देवपञ्चजनेभ्यश्च ञ्यो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- चकारोऽत्र वत्र्तते, तेन बहिरादिभ्योऽपि ञ्यो भविष्यतीति॥
बाल-मनोरमा
गम्भीराञ्ञ्यः १४१४, ४।३।५८

गम्भीराञ्ञ्यः। गाम्भीर्यमिति। यञ्विधौ तु स्त्रियां "प्राचां ष्फः तद्धितः" इति ष्फः स्यात्।

तत्त्व-बोधिनी
गम्भीराञ्ञ्यः १११०, ४।३।५८

गम्भीराञ्ञ्यः। पञ्तजनादुपसङ्ख्यानम्। पाञ्चजन्यम्।