पूर्वम्: ४।३।६२
अनन्तरम्: ४।३।६४
 
सूत्रम्
वर्गान्ताच्च॥ ४।३।६३
काशिका-वृत्तिः
वर्गान्ताच् च ४।३।६३

वर्गशब्दान्तात् च प्रातिपदिकाच् छः प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। अणो ऽपवादः। कवर्गीयम्। चवर्गीयम्।
लघु-सिद्धान्त-कौमुदी
वर्गान्ताच्च ११००, ४।३।६३

कवर्गीयम्॥
न्यासः
वर्गान्ताच्च। , ४।३।६३

बाल-मनोरमा
वर्गान्ताच्च १४२१, ४।३।६३

वर्गान्ताच्च। कवर्गीयमिति। कादिवर्गे भवमित्यर्थः।