पूर्वम्: ४।३।६४
अनन्तरम्: ४।३।६६
 
सूत्रम्
कर्णललाटात् कनलंकारे॥ ४।३।६५
काशिका-वृत्तिः
कर्णललाटात् कनलङ्कारे ४।३।६५

कर्णललाटशब्दाभ्यां कन् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये ऽलङ्कारे ऽभिधेये। यतो ऽपवादः। कर्णिका। ललाटिका। अलङ्कारे इति किम्? कर्ण्यम्। ललाट्यम्।
न्यासः
कर्णललाटात्कनलङ्कारे। , ४।३।६५

कर्णिकाशब्दश्चाभरणविशेषे रूढः। रूढिशब्देषु च नावश्यमपि कर्णसम्बन्धेन भवितव्यम्॥
बाल-मनोरमा
कर्णललाटात्कनलङ्कारे १४२३, ४।३।६५

कर्णललाटात्। "शरीरावयवाच्चे"ति यतोऽपवादः। कर्णिका ललाटिकेति। कर्णे ललादे भवोऽलङ्कार इत्यर्थः। स्त्रीत्वं लोकात्। टापि "प्रत्ययस्था"दितीत्त्वम्।

तत्त्व-बोधिनी
कर्णललाटात्कनलङ्कारे १११३, ४।३।६५

कर्णलाटात्। यतोऽपवादः। अलङ्कारे किम्()। कण्र्यम्। ललाट()म्।