व्याख्यायते ऽनेन इति व्याख्यानं, व्याख्यातव्यस्य नाम व्याख्यातव्यनाम। तस्य इति षष्ठीसमर्थात् व्याखयातव्यनाम्नः प्रातिपदिकाद् व्याख्याने ऽभिधेये यथाविहितं प्रत्ययो भवति तत्र भवे च। वाक्यार्थसमीपे चकारः श्रूयमाणः पूर्ववाख्यार्थम् एव समुच्चिनोति तत्र भव
४।३।५३ इति। सुपां व्याख्यानः सौपो ग्रन्थः। तैङः। कार्त्तः। सुप्सु भवं सौपम्। तैङम्। कार्तम्।
व्याख्यातव्यनाम्नः इति किम्? पातलिपुत्रस्य व्याख्यानी सुकोशला, पाटलिपुत्रः सुकोशलया व्याख्यायते, एवं संनिवेशं पाटलिपुत्रम् इति, न तु पाटलिपुत्रो व्याख्यातव्यनाम। भवव्याख्यानयोर् युगपदधिकारो ऽपवादविधानार्थः। कृतनिर्देशौ हि तौ।
"{ तस्य व्याख्याने- इति सूत्रभागः}तस्य व्याख्यानम्" इति। व्याख्यायतेऽनेनेति व्याख्यानम्, करणे ल्युट्। चकारात् "तत्र भवे च" इति। ननु च व्याख्यानं प्रत्ययार्थः, तस्य समीपे चकारः श्रूयत इति प्रत्ययार्थमात्रस्यैव समानजातीयस्य तेनानुकर्षणं न्याय्यम्, न तु समर्थविभक्तेरपि; समानजातीयस्य तु चकारः समुच्चयं करोति, यथा-- "केदाराद्यञ्च"
४।२।३९ इति; प्रत्ययसमीपवर्त्तिना चकारेण प्रत्यय एव समुच्चीयते, यथा-- "ठञ् कवचिनश्च"
४।२।४० पादानात् पूर्वस्याः समर्थविभक्तेर्निवृत्तौ सत्यां भवार्थेऽपि षष्टीसामथ्र्यादेव प्रत्ययो युक्तः-- तदयुक्तमुक्तम्; तत्र भवे चेति,
तस्य भवे चेति वक्तुं युक्तम्? इत्यत आङ-- "वाक्यार्थसमीपे" इत्यादि। इहेतिरकरणेन तस्य व्याख्यान इत्येषोऽर्थः प्रत्यवमृश्यते। न तु व्याख्यानप्रत्ययार्थः। तस्मादितिकरणान्ततरमुच्चारितश्चकारस्तत्प्रत्ययवमृष्टस्य वाक्यार्थस्यैव समीपे श्रूयमाणस्तुल्यजातयीमेव वाक्यार्थं समुच्चिनोति। तेन भवार्थे सप्तमीसामथ्र्यादेव एव कृतः; अन्यथा हि "तस्य व्याख्याने च" इत्येवं ब्राऊयात्। कः पुनरसौ वाक्यार्थ इत्याह-- "तत्र भवे" इति।
"न तु पाटलीपुत्रशब्दो व्याख्यातव्यनाम" इति। ननु च पाटलिपुत्रः कोशलया व्याख्यायते, नियतं तेन व्याख्यातव्येन भवितव्यम्, अन्यथा तस्य व्याख्यानी सुकोशला न स्यात्।
तस्य व्याख्यानस्य पाटलिपुत्रशब्दो व्याख्यातव्यनाम भवतीति भावः? नैतदस्ति; यदीह व्याख्यातव्यमभिप्रेतम्, न तस्यैतन्नाम भवतीति भावः।
किञ्चेह व्याख्यातव्यमभिप्रेतम्? यद्व्याख्यातव्यतया लोके प्रसिद्धतरम्।
कुत एतत्? व्याख्यातव्यनामग्रहणात्। इह हि व्याख्यातव्यनामग्रहणं व्याख्यातव्यार्थं तु न कत्र्तव्यमेव;विनापि हि तेन व्याख्याव्यनाम्न एव प्रत्ययसिद्धेः। तथा हि "तस्य " इति तस्य प्रतियोगिव्याख्यानमुपात्तम्। तच्च व्याख्यातव्यस्यैव सम्भवति, नान्यस्य। तस्माद्यद्यत्तसय् व्याख्यातव्यं सामथ्र्यात्तदेव तस्येत्यनेन षष्ठ()न्तेनोपादीयत इति विज्ञायते।
ततश्चान्तरेणापि व्याख्याव्यनामग्रहणं व्याख्यातव्यनामाभिधायिन एव प्रत्ययो भविष्यतीति किं व्याख्यातव्यनामग्रहणेन? तत् क्रियते व्याख्यतव्यतया लोके यः प्रसिद्धस्तदभिधायिन एव प्रत्ययो यथा स्यादित्येवमर्थम्। व्याकरणादयो ग्रन्थविशेषा लोके प्रसिद्धाः, न ते पाटलिपुत्रादयः। एवमपि नामग्रहणं न कत्र्तव्यम्,
व्याख्यतव्यग्रहणसामथ्र्यादेव हि व्याख्यातव्यतया प्रसिद्धतरेभ्यः प्रत्ययो लभ्यत एव? नैतदस्ति;व्याख्याने हि प्रत्ययार्थे व्याख्यानादेव व्याख्यातव्यवाचिनः प्रत्यये सिद्धे पुनव्र्याख्यातव्यग्रहणसामथ्र्याद व्याख्यातव्यतया ये प्रसिद्धास्तेब्यः प्रत्ययो लभ्यते, न तु तत्र भवे; तत्र सामथ्र्याभावात्। भवेऽपि चार्थे तत्र व्याख्यातया प्रसिद्धतराः, तदभिधायिभ्य एव प्रत्यय इष्यत इति; न तु यतः कुतश्चित्। तस्माद्भवाधिकारे रूढ()उपसंग्रहार्थं नामग्रहणं कत्र्तव्यम्।
अथ किमर्थं भवव्याख्यानयोर्युगपदधिकारः क्रियते? इत्याह-- "भवव्याख्यानयोः" इत्यादि। ठञादीनपवादानत्राभिधास्यामीत्येवमर्थो युगपदनयोरधिकारः। ननु किमुच्यते-- अपवादविधानार्थं इति;
प्रकृतानामणादीनां प्रत्ययानामर्थनिर्देशो यथा स्यात्? इत्यत आह-- "कृतनिर्दशौ हि तौ" इति। कृतनिर्देशौ हि तावर्थौ। एकः "तत्र भवः" इति, अपरः "तस्येदम्" इति। तस्येदंविशेषत्वाद्व्याख्यानस्य॥
तस्य व्याख्यान इति च। व्याख्यायते येन स व्याख्यानः। करणे लुट्। "इति"शब्दो वाक्यार्थ परामृशति। तत्समीपे श्रूयमाणश्चकारः "तत्र भवः"इति वाक्यार्थमाक्षिपति। व्याख्यातव्यस्य=ग्रन्थस्य नाम=प्रतिपादकं, तच्च शक्त्या लक्षणय वेत्य[त्र]नाग्रहः। तथा च "षष्ट()न्ताव्द्यख्यानकरणार्थे, सप्तन्यन्तात्तु भवार्थे, व्याख्यातव्यस्य ग्रन्थस्य प्रतिपादकात्प्रत्ययाः स्यु"रिति सूत्रार्थः। व्याख्यातव्यस्य नाम्नः किम्()। पाटलिपुत्रस्य व्याख्यानी सुकोसला। पाटलिपुत्रं हि तया व्याख्यायते "ईदृक्संनिवेशविशिष्ट"मिति। न त्विदं व्याख्यातव्यस्य नाम। ग्रन्थेष्वेव व्याख्येयत्वस्य सुप्रसिद्धत्वात्, नामग्रहणं हि प्रसिद्ध्युपस्ङ्ग्रहार्थमेव सूत्रे कृतम्।