पूर्वम्: ४।३।६६
अनन्तरम्: ४।३।६८
 
सूत्रम्
बह्वचोऽन्तोदात्ताट्ठञ्॥ ४।३।६७
काशिका-वृत्तिः
बह्वचो ऽन्तोदात्ताट ठञ् ४।३।६७

बह्वचो व्याख्यातव्यनाम्नः प्रातिपदिकादन्तोदात्ताद् भवव्याख्यानयोः ठञ् प्रत्ययो भवति। अणो ऽपवादः। षात्वणत्विकम्। नातानतिकम्। समासस्वरेण अन्तोदात्ताः प्रकृतयः। बह्वचः इति किम्? द्व्यचः ठकं वक्ष्यति। एकाच् प्रयुदाह्रियते। सौपम्। तैङम्। कार्तम्। अन्योदात्तातिति किम्? संहितायाः सांहितम्। संहिताशब्दो हि गतिस्वरेण अद्युदात्तः।
न्यासः
तदस्मिन्नस्तीति देशे तन्नाम्नि। , ४।३।६७

"प्रत्ययान्तनामा" इति। यदि तर्हि तन्नाम्नि देशे प्रत्ययः, इतिकरणोऽनर्थकः, तन्नामग्रहणादेवातिप्रसङ्गनिवृत्तिः? नैतदस्ति; द्विविधं हि नाम-- सङ्केतितम्, अनुवृत्तञ्च। सङ्केतितं यदद्यापि व्यवहारपदवीं नानुपतति, तत्रानुवृत्तं यन्नाम तत्रायं योगः। अनुवृत्तञ्च व्यावहारिकम्, तत्प्रतिपत्त्यर्थमितिकरणः क्रियते, ग्रामादिविशेषपरिग्रहार्थश्च। यद्येवम्, इतिकरण एव क्रियताम्, किं तन्नाम्नीत्यनेन? एतदपि न कत्र्तव्यम्; नामधेयता विरोधिनोऽपि बलीयसोऽपि प्रत्ययान् बाधित्वम्। कथम्? नाप्राप्ते मतुप्ययं योग आरभ्यमाणे मतुपमवादत्वाद्बाधते। तदपवादैस्त्विनिठनादिभिः सह सम्प्रधारणायामपवादविप्रतिषेधादिनिठनादय एव स्युः। नामग्रहणे तु सति बलीयोभिरपि सम्प्रधारणायाः सम्प्रत्ययो भवति-- यो नामधेयतां गमयति स चातुर्थिक एवेति। अतः स एव भवति॥
न्यासः
बह्वचोऽन्तोदात्ताट्ठञ्। , ४।३।६७

"षात्वणत्विकम्" इति। "नातानतिकम्" इति। उभयत्र द्वन्द्वात्प्रत्ययः। "समासस्वरेणान्तोदात्ताः प्रकृतयः"इति। "समासस्य" ६।१।२१७ इत्यनेन बहुवचननिर्देशश्चैवंजातीयापरप्रकृत्यपेक्षया। द्व्यचष्ठकं वक्ष्यति-- "द्व्यजृद्ब्राआहृण" ४।३।७२ इत्यादिना। "सौपम्" इति। "तैङम्" इति। सुप्तिङ्शब्दौ प्रातिपदिकस्वरेणान्तोदात्तौ। "गतिस्वरेणाद्युदात्तः"इति। "गतिरनन्तरः" ६।२।४९ इत्यनेन। अन्तग्रहणं विस्पष्टार्थम्; सर्वोदात्तस्य प्रातिपदिकस्यासम्भवात्। सामथ्र्यादेव तदन्तविधिर्भविष्यतीति, यथा-- "वर्णादनुदात्तात्तोपधात् तो नः" ४।१।३९ इति। अपि चोदात्त इति वर्णग्रहणं सर्व तदन्तविधिं प्रयोजयतीति युक्त एव तदन्तविधिः॥
बाल-मनोरमा
बह्वचोऽन्तोदात्ताट्ठञ् १४२५, ४।३।६७

बह्वचोऽन्तोदात्ताट्ठञ्। अन्तोदात्ताद्बह्वच उक्तविषये ठञ्स्यात्। अणोऽपवादः।

तत्त्व-बोधिनी
बह्वचोऽन्तोदात्ताट्ठञ् १११५, ४।३।६७

बह्वचो। अणोऽपवादः। बह्वचः किम्()। व्द्यचष्ठकं वक्ष्यतीत्येकाच्प्रत्युदाहार्यः। सौपम्। तैङम्। अन्तोदात्तात्किम्()। संहितायाः संहितम्। "गतिरनन्तरः"इत्याद्युदात्तोऽयम्। अन्तग्रहणं स्पष्टप्रतिपत्त्यर्थम्। उदात्तादित्युक्तेऽपि वर्णग्रहणे तदन्तग्रहणात्, "वर्णादनुदात्ता"दित्यत्र यथा।